Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 310
________________ કર महाकविश्रीरामचन्द्रविरचित चित्राङ्गदः - ( स्वगतम् ) उपहसति मामयं दुरात्मा वणिकीटः । तदिदानीमेव करोमि कृतान्तातिथिम् । अथवा नयामि मल्लिकायाः समीपम् । पश्यन्त्याश्च तस्यास्तरवारिणा पातयाम्यस्य मूर्धानम्, येन सा प्रतिभयेन मांप्रतिपद्यते। यदि वा सामप्रयोगसाध्ये [न] दण्डप्रयोगः । ततः प्रथममुपशान्तयाम्येनम् । (प्रकाशम् ) महाभाग ! शब्दाः कथञ्चित् सर्वेऽपि बाह्यवाच्यावगाहिनः । व्यसने धैर्यमित्येष शब्दस्त्वात्मैकगोचरः ॥२३॥ ततो विस्मिता व तवामुना मनःसौष्ठवेन । तदतः परं मित्रमसि नः। पन्मित्रोचितं तदस्मासु विध्याः। मकरन्दः - (स्वगतम् ) कर्पूरप्रभवस्यापि प्रदीपस्यासिता मषी । विद्विषो विनतस्यापि प्रियमायाति विप्रियम् ॥२४॥ ( प्रकाशम् ) महापुरुष ! वयमपि विस्मितास्तवामुना मनःसौष्ठवेन । तदतः परं मित्रमसि नः । यन्मित्रोचितं तदस्मास्वपि विदध्याः। चित्राङ्गदः - अरे मनुष्यापसद ! निर्व्याजमपि सव्याज व्याहरसि ?, अनुभवेदानी कुटिलतायाः फलम् । एषा समाप्यते ते जीवितकथा । कोऽत्र भोः ? । (प्रविश्य कृपाणपाणिः) पुरुषः - एषोऽस्मि । चित्राङ्गदः - अरे कराल ! के गृहीत्वा दुरात्मानमेनं शिबिरमुपनय । वयमपि गन्धमूषिकाया आश्रमे व्रजामः । ( इति निष्क्रान्ताः सर्वे । ) ॥ चतुर्थोऽङ्कः ॥ ४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358