Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् । कपिञ्जलः - कुमार ! कस्मै उपनयामि ? नाऽऽस्ते पजरे शुकः ।
चित्राङ्गदः - ( सभयम् ) किमिदानीमुत्तरं विधेयमस्माभिश्चन्द्रलेखायाः। (पुनः सम्मुखीनं मकरन्दमवलोक्य ) कपिजल ! कोऽयम् ? ।
कपिञ्जलः - ( वेषमवलोक्य ) कुमार ! सोऽयं युष्मत्प्रेमप्रत्यूहः । चित्राङ्गदः - ( सरोषम् ) अरे ! कस्त्वम् ? ।
मकरन्दः - (स्वगतम् ) अहं वणिग्मात्रमेकाकी च । अयं विद्याधरः सपरिच्छदश्च । स्त्रीनिमित्तं च वैरम् । तदवश्यमेव उपस्थितो मे मृत्युकालः। तदिदानी किं दैन्यजल्पितैः ? । अपि च
मानिनो मानिनस्तावद यावद यान्ति न दीनताम् ।
संसहेत न बन्धं यः केशरी केशरी हि सः ॥२१॥ (प्रकाशम् ) त्वमपि हि कः ?।
चित्राङ्गदः - ( सक्रोधम् ) अरे वाचाटकिराट ! मां पृच्छसि ? अहं विद्याधरकुमारश्चित्राङ्गदः।
मकरन्दः - (साक्षेपम् ) अहं तर्हि विद्याधरचक्रवर्तिकुमारो मकरन्दः ।
कपिजलः - अरे वणिक्कीट ! शौण्डीर्यमेदुरांसस्थलेन क्षत्रवंशावचूलेन कुमारेण सह स्पर्धसे ?।
मकरन्दः - अरे. पदातिसारमेय ! अनभिज्ञोऽसि परमार्थवम॑नाम् । वर्णानपेक्षं शौण्डीय सत्त्वमात्रे निषीदति । सत्त्वं तु वणिजेऽपि स्यान्न स्यात् क्षत्रेऽपि न (? च) क्वचित् ॥२२॥
चित्राङ्गदः - ( सरोषम् ) अरे मुखर ! मत्प्रियामभिलपतस्ते दैवं पतिकूलम् ।
मकरन्दः - ( सरोषम् ) तवापि मत्प्रियामभिलपतो दैवं प्रतिकूलम् ।
चित्राङ्गदः - ( नेपथ्यमुपलक्ष्य ) अरे ! मत्प्रियाया नेपथ्यं परिदधतस्ते प्रत्यासीदति मृत्युसमयः।
मकरन्दः - ( सोपहासम् ) अमुनैव नेपथ्यलाभेन निश्चितं मया सा प्रिया तत्रभवतो भवतः, न पुनर्मम ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358