________________
महाकविश्रीरामचन्द्रविरचितं
मकरन्दः - ततस्ततः ।
शुकः - पारपरूढप्रौढनानाजातीयवानेयवृक्षदिदृक्षया यानपात्र[स्थ]या मनोरमया समं भूमौ समुत्तीर्णवान् ।
मकरन्दः - ततस्ततः ।
शुकः - विलोकयंश्च कोकिलाकुलकुलायसमृद्धकक्षान् अनेकतिलक-चम्पक -पुन्नागनागपाग्रहरान उपत्यकावृक्षान्, एकामनेकानयप्रसाधनप्रभामाग्भारदुरवलोकावयवविवेकामधंजरती वनितामपश्यत ।
मकरन्दः - अहो ! कौतु[क]कारी कथासन्निवेशः।
शुकः - उदीरितः स्वगतश्च परमादरं दर्शयन्त्या तया स्वभवनमिदमानीतः । अनुकूलितश्च तैस्तैश्चाटुकारैः तैौदिव्यफलरसाहारी :तैस्तैरनेकदई नीयदिव्यप्रदेशोपदर्शनेः तैस्तैः खेचरजनोचितप्रसाधनविधानः कियन्त्यपि दिनानि ।
मकरन्दः - ( सत्वरम् ) ततः किम् ? ।
शुकः - एकदा च धवलयति सौधांसवे महसि दिक्चक्रवालं चन्द्रशालायां पर्यङ्कनिषण्णस्तया वृषस्यन्त्या सम्भोगार्थमत्यर्थमभ्यर्थितः ।
मकरन्दः - (सजुगुप्सम् ) अनुचितमतः परं श्रोतुम् । कथाऽपि पापीयसां पुंसां महते कलुषाय प्रभवति, तथापि व्याहर । अनिर्वहणे हि प्रारम्भो नीचतां प्रकाशयति ।
शुकः - स च वीतरागवचनश्रवणपविनितात्मा परदारपरिहारव्रतमनुरुन्धानो रिम्सुमपि तां दूरमपकर्णितवान् ।
मकरन्दः - ( सानन्दम् ) स्तुत्यचरितोऽसि वैश्रवण !, एष ते प्रणामार्थ बद्धोऽजलिः।
शुकः - अनन्तरमसौ तदात्वपल्लवितकोपाटोपपाटलाक्षी –'अरे पाप ! यावज्जीवमनुभव पजरचारकाधिवालवैशसम्, परिपालय परदारपरिहारव्रतम्' -इति व्याहरन्ती केनापि चूर्णप्रयोगेण तं महात्मानं शुकं कृतवती । स चाहं देवहतकः । तां पुनर्मनोरमां प्रथमदिवस एव पुरुषाकारधारिण्याः स्वदुहितुः परिचारिकां विहितवती।
मकरन्दः - सा पुनरिदानी खेचरी वव वर्तते ? ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org