________________
मल्लिकामकरन्दनाटकम् ।
( पुनः सजुगुप्सम् ) गीतमपि रक्तकण्ठैरुदघटितं प्रीतये किल न येषाम् ।
पाषाणसोदराणां तेषामेषोऽञ्जलिर्बद्धः ॥१२॥ ( पुरोऽवलोक्य ) कथमितः खेचरशिबिरसन्निवेशः कोऽपि ? । (वामाक्षिस्फुरणमभिनीय ) निश्चितमत्र तेन चित्राङ्गदेन भाव्यम् । तदन्यतो व्रजामि । ( इति परिक्रम्य ) कथमिदं सर्वतो माणिक्यप्रभापुजपिजरितदिगन्तरं निर्मानुषप्रचार पुरः सौधम् ? । भवतु, प्रविश्य विलोकयामि ।
(नेपथ्ये) महाभाग ! निवर्तरव निवर्तस्व । केन दुष्टदेवेन प्रेरितो महापापनिधानं सौधमिदमधिरोहसि ?
मकरन्दः - (सकौतुकम् ) कथमयं सौधाङ्गणपजरस्थः शुको व्याहरति ?। तत् कथं वामाक्षिस्फुरणमपीदमस्माकं शुभोदर्काय ? ।
असम्भाव्यार्थलाभान्ता विपत् सम्पत्तिसोदरा । विषं हि व्याधिविध्वंसि पीयूषप्रतिहस्तकः ॥१३॥
( ततः प्रविशति यथानिर्दिष्टः शुकः ।) शुकः - भो भो महाभाग ! निवर्तस्व निवर्तस्व ।
मकरन्दः - ( सावष्टम्भम् ) भोः ! मा भैषीः, विश्रब्धं ब्रूहि । स्व-परापायनिवर्तनक्षमोऽहम् । ततो यदि शकुन्त एव त्वं पटुचटुव्याहारस्तदानीं किमाश्चर्यम् ? । अथ व्याजान्तरं किमपि तदा प्रकाशय परमार्थम् । पर्याकुलोऽस्मि श्रवणोत्कण्ठया ।
शुकः - व्याजान्तरमेवेदम् , प्रतीकारासम्भवेन पुनरप्रकाश्यम् । मरकन्दः-ममाल्पत्वदर्शनेन प्रतीकारासम्भवमभिदधासि तदाभ्रान्तोऽसि।
अत्यद्भुतं[................] कर्म तदादधाति __स्वल्पोऽपि कोऽपि महतामपि यन्न साध्यम् । कर्पूरपूरणविधेरधिकां वहन्ति
ताम्बूलतो वदनवारिरुहाणि लक्ष्मीम् ॥१४॥ शकः - समाकर्णय तर्हि-वैभलनगरनिवासी वैश्रमणनामा सांयात्रिको मनोरमया सधर्मचारिण्या समं महाग्रं-विचित्रभाण्डनिभृतं यानपात्रमधिरूढः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org