Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 304
________________ ३६ महाकविश्रीरामचन्द्रविरचित मकरन्दः ( साश्चर्यम् ) - प्राणानपि विमुञ्चन्ति निबद्धप्रीतयः स्त्रियः । विद्वांसोsपि जुगुप्सन्ते तास्तथापि कुतूहलम् ||६|| ( आत्मवेषमवलोक्य) एवंविधेनापि दिव्याकल्पनेपथ्येन हृदयभेदिना च पटुना च सहस्रेण मल्लिका चित्राङ्गदं न कामयते । Jain Education International ताः सन्ति किं न शतशः ? शतशोऽपि पुम्भरभ्यर्थिताः स्मरपदानि न याः स्मरन्ति । ते सन्ति नैव पुनरेणविलोचनानां नानाsपि ये प्रतिकलं विलयं न यान्ति ॥ ७ ॥ ( ऊर्ध्वमवलोक्य) ललाटन्तपनस्तपनो बाधतेऽङ्गानि, मर्मभेदी धर्मः विरहानलश्च । भवतु, क्षणमेकमुद्यान के लिसरः कूलकच्छेषु विहरामि । ( इति परिक्रामति । समन्ततोऽवलोक्य सहर्षम् ) दात्यूह - कुर्कुट - कपिञ्जल - चक्रवाक सारङ्ग - भृङ्गकलकूजितमञ्जुकुञ्जाः । उद्यानकेलिसरसीतटफुल्लमल्लीवल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥८॥ ( पुनर्मल्लिकां स्मृत्वा सौत्सुक्यम् ) आस्यं हास्यकरं शशाङ्कयशसां बिम्बाधरः सोदरः पीयूषस्य वचांसि मन्मथमहाराजस्य तेजांसि च । दृष्टिर्विष्टपचन्द्रिका स्तनतटी लक्ष्मीनटीनाट्यभू रौचित्याचरणं विलासकरणं तस्याः प्रशस्यावधेः ॥९॥ अपि चेदानीं वियोगरोगाभितापविक्लवायाः प्रियायाः वक्त्रं पाणिमिलत्कपोलफलकं नेत्रे च पद्माम्बुजे गात्रेषु प्रतिकर्म जर्जर [ र ? ]सं वाचः श्लथार्थान्वयाः । तस्याः स्मेरसरोजसुन्दरदृशः शङ्के दिशः सर्वतः खेलन्मच्चरितप्रशस्तिसुभगस्तम्भाङ्कितोरः स्थलाः ॥१०॥ ( पुनः कर्णे दत्त्वा ) कथं पञ्चमोद्गारसारः समापतति गीतामृतासारः ? | अन्योन्यं विषयाणां गुरु-लघुभावो न कोऽपि यदि नाम । अन्येव तदपि रेषा गीतीनां कामिनीनां च ॥११॥ For Personal & Private Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358