Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
m
महाकविश्रीरामचन्द्रविरचितं
.
.
(ततः प्रविशति लतागृहस्थस्तापसकुमारः मनोरमा च ।) तापसः- (साश्चर्यमात्मगतम् ) अहो! जन्मान्तरदृश्यस्यार्थस्यात्रैव निदर्शनम् ।
उत्पातेषु महत्स्वपि सुमेधसा जीवितं न हातव्यम् । - सति जीविते कथञ्चिद् घटते किश्चित् पुनः प्रेयः॥१०॥
मकरन्दः - ( विलोक्य ) कथं तापसकुमारः अत्यन्तसदृशावयवस्तस्या मल्लिकायाः ?, जाने मल्लिका परिवृत्य वेधसाऽयं घटितः। भवतु, प्रणमामि । ( इति प्रणमति ।)
तापसकुमारः - स्वस्ति, समीहितमाप्नुहि, मनोरमे ! आसनमुपनय । मकरन्दः - ( उपविश्य साभिलाषं स्वगतम् )
अहो ! गात्रस्य सौन्दर्यम् , अहो ! वाचां विदग्धता ।
अहो ! मध्यस्य तुच्छत्वम्, अहो ! श्रोणेविशालता ॥११॥ तापसकुमारः- कुतो भवानस्मिन् दिव्यजनसमुचितसञ्चारे रत्नसानौ समायातः ?।
मकरन्दः - साम्प्रतं सिद्धायतनात् परतः पुनरहमपि न जानामि । मनोरमा - (सोपहासम्) 'परदो आगमणे अहं कहिस्सं । मकरन्दः -( सस्पृहमात्मगतम्) अमुमकृत यदङ्गनां न वेधाः
स खलु यशस्वितपस्विनां प्रभावः । त्रिजगति कथमन्यथा कथाऽपि
क्षततमसां तपसां पदं लभेत ? ॥१२॥ ( प्रकाशम् ) भगवन् ? अपरिचितमपि चिरपरिचितमिव मे हृदयम् , ततः किमपि प्रष्टुमभिलषामि।
तापसकुमारः - न नाम सर्वाणि कर्माणि परिचयमपेक्षन्ते । ... क्षणदृष्टेऽपि कुत्रापि दृढं सङ्घटते मनः ।
बालस्तदात्वजातोऽपि जनन्याः स्निह्यति स्तने ॥१३॥ मकरन्द:
न सर्वकामुकापेक्षं स्त्रीणां दौर्भाग्यलाञ्छनम् । हिमानी शाखिनां द्वेष्या यवस्तम्बस्य तु प्रिया ॥१४॥ १ परतः आगमने अहं कथयिष्यामि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358