Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् ।
२५ एताः किन्नरगीतयः श्रुतिपथामोदं यथा कुर्वते
क्षौमाकल्पमयच्छदच्छविजुषः शाखा यथा शाखिनाम् । आशाः शक्रशरासनैवनसरोमाणिक्यरोधोमहः( है ?)
किर्मीरास्तनुते यथा रतिमयी सेयं तथा स्वर्गभूः ॥६॥ भवतु, परिक्रमामि ।( पुरोऽवलोक्य ) कथमिदं वीतरागप्रतिमाप्रसाधितमध्यभागं देवतायतनम् ? आचक्षते हि शाश्वतिकानि दिव्यभूमिषु सिद्धायतनानि सिद्धान्तविदः।
(सप्रश्रयं प्रणम्य साश्रमञ्जलिमाधाय) श्रीनिर्वाणपुराधिनाथ ! भगवन्नस्तोकलोकत्रयी
शोकोद्धारधुरीण ! विश्वजनतासङ्कल्पकल्पद्रुम !। अस्मासु प्रणतैकवत्सल ! कृपापात्रेषु तांस्तांश्चिरं कामान् पूरय चूरय प्रतिकलं प्रत्यूहवज्रार्गलाः ॥७॥
( नेपथ्ये) 'अवरेहि वि कूवजलेहि न हु न जीवंति मामि ! वल्लीओ।
जलहरजलसित्ताणं का वि [ य] अवरा मुहच्छाया ॥ ८॥ मकरन्दः - ( आकर्ण्य ) कथमेष मल्लिकाशब्दानुसारी ध्वनिः ।
(पुनर्नेपथ्ये) "वल्लहजणविरहीणं पाणपवासो वि बाहिरी किरिया।
संताव-रुण्ण-गहिलत्तणाइ पुण कित्तियं कम्मं ? ॥९॥ . मकरन्दः - निश्चितमयं विरहव्यथाभिर्मरणोन्मुखाया मल्लिकाया ध्वनिः । यदि वा जीवितमपि तस्यास्तपस्विन्याः सन्दिग्धम्, किं पुनर्ध्वनिः ? । (विलोक्य) येयं पराचीनवदना पुष्प-फलान्युपचिनोति मृगाक्षी तस्याः परिदेवनध्वनिरयम् । भवतु, समीपीभूय सम्भाषयामि । कथमियं तिर्यगवलोकयन्ती मां भूयोभूयस्तरुभिस्तिरोधत्ते ? भवतु, पदानुसारेणानुगच्छामि । . १ अपरैरपि कूपजलैः न खलु न जीवन्ति सखि ! वल्ल्यः ।
जलधरजलसिक्तानां काऽपि च अपरा मुखच्छाया ॥ ८ ॥ २ वल्लभजनविरहिणां प्राणप्रवासोऽपि बाह्या क्रिया । सन्तापरुदितग्रथिलत्वादि पुनः कियत् कर्म ? ॥९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358