Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् । द्विजन्मनः क्षमा मातुईषः प्रीतिः पणस्त्रियः।। नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ २३ ॥
( पुनः सदैन्यम् ) मागधिके ! मम त्वमम्बाप्रतिकृतिः। अहमिदानीं भवत्साहायकेनैव व्यसनाम्भोधिमतिलङ्घयिष्यामि । ततो वितर्कय कमप्युपायमेतस्य मम जीवितस्य परित्राणाय ।
मागधिका - 'संपदं सिद्धाययणावत्थाणमेव उवाओ।
तापसकुमारः - समुचितमाह भवती, न प्रभवन्ति सिद्धायतनस्थायिनां क्षुद्रोपद्रवाः।
मकरन्दः - ( स्वगतम् ) यथाऽयं तापसः सदैन्यं मामवलोकयति तथा जाने मम किमप्यनिष्टमुपस्थितम् । (प्रकाशं सावष्टम्भम् ) भगवन् ! भवति दृष्टे हृदयवल्लभा दृष्टा । कृतार्थोऽहम् । अतः परं कुतोऽपि परित्राणमभिलषामि ।
मृत्यवे बद्धकक्षस्य किं मे देवी करिष्यति । किमाधत्तां पतिः क्षुद्रो मर्त्यस्य फलनिस्तृषः ॥२४॥ तापसकुमारः - किमायत्तं ते जीवितम् ?। मकरन्दः - एतावन्तं कालं कृतान्तायत्तम्, साम्प्रतं त्वदायत्तम् ।
तापसकुमारः - उत्तिष्ठ, तर्हि व्रज सिद्धायतनम् । यदियं मागधिका कारयति तदेव तत्रस्थितेन त्वया कर्त्तव्यम् ।
(मागधिकया सह मकरन्दो निष्क्रान्तः । )
(नेपथ्ये व्योमतः शिलापातः । ) उभौ - ( विलोक्य सत्रासम् ) किमिदम् ? ।
( प्रविश्य देवलकेन दत्तहस्तावलम्बा ) चन्द्रलेखा - आः पाप मनुष्यकीट ! द्वीपान्तरस्थिताया अपि मद्वत्सायाः पृष्ठं न मुञ्चसि ? इदानीमनुभवतु दुर्विनयस्य फलम् । ( देवलकम् ) शिलाया अधोभागादाकर्षय दुरात्मानमेतम् , येन मृतमपि स्वहस्तेन मारयामि ।
देवलकः – ( शिलामुत्क्षिप्य ) देवि ! न कोऽप्यधस्तादस्ति । चन्द्रलेखा - ( सवैलक्ष्यम् ) तर्हि निष्फलोऽयं शिलापातप्रयासः । गतः १ साम्प्रतं सिद्धायतनावस्थानमेव उपायः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358