SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । द्विजन्मनः क्षमा मातुईषः प्रीतिः पणस्त्रियः।। नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ २३ ॥ ( पुनः सदैन्यम् ) मागधिके ! मम त्वमम्बाप्रतिकृतिः। अहमिदानीं भवत्साहायकेनैव व्यसनाम्भोधिमतिलङ्घयिष्यामि । ततो वितर्कय कमप्युपायमेतस्य मम जीवितस्य परित्राणाय । मागधिका - 'संपदं सिद्धाययणावत्थाणमेव उवाओ। तापसकुमारः - समुचितमाह भवती, न प्रभवन्ति सिद्धायतनस्थायिनां क्षुद्रोपद्रवाः। मकरन्दः - ( स्वगतम् ) यथाऽयं तापसः सदैन्यं मामवलोकयति तथा जाने मम किमप्यनिष्टमुपस्थितम् । (प्रकाशं सावष्टम्भम् ) भगवन् ! भवति दृष्टे हृदयवल्लभा दृष्टा । कृतार्थोऽहम् । अतः परं कुतोऽपि परित्राणमभिलषामि । मृत्यवे बद्धकक्षस्य किं मे देवी करिष्यति । किमाधत्तां पतिः क्षुद्रो मर्त्यस्य फलनिस्तृषः ॥२४॥ तापसकुमारः - किमायत्तं ते जीवितम् ?। मकरन्दः - एतावन्तं कालं कृतान्तायत्तम्, साम्प्रतं त्वदायत्तम् । तापसकुमारः - उत्तिष्ठ, तर्हि व्रज सिद्धायतनम् । यदियं मागधिका कारयति तदेव तत्रस्थितेन त्वया कर्त्तव्यम् । (मागधिकया सह मकरन्दो निष्क्रान्तः । ) (नेपथ्ये व्योमतः शिलापातः । ) उभौ - ( विलोक्य सत्रासम् ) किमिदम् ? । ( प्रविश्य देवलकेन दत्तहस्तावलम्बा ) चन्द्रलेखा - आः पाप मनुष्यकीट ! द्वीपान्तरस्थिताया अपि मद्वत्सायाः पृष्ठं न मुञ्चसि ? इदानीमनुभवतु दुर्विनयस्य फलम् । ( देवलकम् ) शिलाया अधोभागादाकर्षय दुरात्मानमेतम् , येन मृतमपि स्वहस्तेन मारयामि । देवलकः – ( शिलामुत्क्षिप्य ) देवि ! न कोऽप्यधस्तादस्ति । चन्द्रलेखा - ( सवैलक्ष्यम् ) तर्हि निष्फलोऽयं शिलापातप्रयासः । गतः १ साम्प्रतं सिद्धायतनावस्थानमेव उपायः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy