________________
महाकविश्रीरामचन्द्रविरचितं मकरन्दः - ( सबाष्पम् ) पञ्चशैले च कुतोऽपि वल्लभाजनतः केनापि महीयसामश्राव्येण विधिना विप्रयुक्तः।
तापसकुमारः - ( साशङ्कम् ) ततः किम् ?। ।
मकरन्दः - मरणार्थमात्मानमम्भोधौ पातयन्नेकमायातं भारुण्डपक्षिणमद्राक्षम् । ततः परमात्मानं सिद्धायतनोपवने विलोकितवानस्मि ।
तापसकुमारः - (स्वगतम् ) निश्चितमयं मांसलुब्धेन भारुण्डपक्षिणा रत्नसानाविह समानीतः।
मकरन्दः - ततः प्रसीद, समादिश मे विरहवह्निदन्दह्यमानवपुषः किमपि मरणोपयिकम् ।
(नेपथ्ये) गृहाणैतद् देव्या समुपनीतं दिव्यफलनिकरम् । तापसकुमारः - अपरमपि किमपि प्रयोजनम् ? ।
देवलकः - योऽयं मर्त्यः समायातः स किमाकृतिः ? किमासन्नश्च ? इति परिज्ञातुमपरं प्रयोजनम् ।
तापसकुमारः - (सरोषम् ) एतेन किं ज्ञातेन ? ।
देवलकः – ( साक्षेपम् ) अमुं प्रश्नं नाहमर्हामि, किन्तु देवी चन्द्रलेखा । (-इत्यभिधाय निष्क्रान्तः । )
तापसकुमारः - ( वामाक्षिस्फुरणमभिनीय अपवार्य च ) मनोरमे ! यथाऽयं देवलकः साक्षेपवादी तथा जाने देवी चन्द्रलेखातः कोऽप्यपायो मकरन्दस्यास्य प्रत्यासन्नः । तत् कथय किमधुना समुचितमाधातुम् ? ।
(प्रविश्य )
मागधिका - (सम्भ्रान्ता ) 'अच्चाहिदं अच्चाहिदं ।
तापसकुमारः - ( सभयाशङ्कम् ) विश्रब्धमभिधीयताम् , कस्य अत्याहितम् ?।
( मागधिका कर्णे एवमेव । ) तापसकुमारः - ( सकम्पम् ) अहो ! मयि निरनुरोधा माता । ( विमृश्य ) १ अत्याहितं अत्याहितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org