SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । 'अच्छरियं ते वि जियंति ते वि पहसंति ते वि कीलंति । उयरभरणे वि पिच्छंति निच्चमवराण जे वयणं ॥१८॥ मकरन्दः - यौवनारम्भे च सब्जातवेश्याव्यसनोऽहम् । तापसकुमारः - ( सेारोषम् ) अतः परमश्रव्यचरितोऽसि, मा पुरो व्याहृथाः। जात्यन्धाय च दुर्जनाय च जराजीर्णाखिलाङ्गाय च ___ ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय वा । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया __ पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ? ॥१९॥ मकरन्दः - भगवन् ! अनुचितमभिदधासि । जगतोऽपि यदिह निन्द्यं तद यासां धर्मकर्मवदनिन्द्यम् । तासां पंणहरिणदृशां गवेष्यते किमपरं श्रेयः ? ॥२०॥ अपि च - आगन्तुकेन कार्य घनसलिलं पणवधूवशीकरणम् । एतेषु त्रिषु शक्तो ब्रह्माऽपि न निर्णय कर्तुम् ॥२२॥ . ( तापसकुमारः सरोषमन्यतोऽवलोकयति । ) मनोरमा - भयवं ! पसीय पसीय, पुरओ सुणेहि । मकरन्दः - ( सविनयम् ) भगवन् ! कोऽयमस्मासु दैवहतकेषु सोऽयमप्रसादातिरेकः ? । प्रसीद, दुःश्रवमपि निर्भाग्यशेखरस्य मे श्रृणु चरितलेशवैशशम् । तापसकुमारः - ( सावज्ञम् ) तर्हि त्वरिततरमावेदय, अतिक्रमति मध्याइसवनसमयः । मकरन्दः - कार्पटिकवृत्तितया च ज्ञातिषु स्थातुमशक्यः सुवर्णद्वीपमपहाय पञ्चशैलं द्वीपमाश्रितोऽस्मि । तापसकुमारः-समुचितमाचरितम् । ___स्थातुं तेजस्विना शक्यं न जातिषु गतश्रिया । अस्तापास्तवपुर्भास्वान् नभस्तेन विमुञ्चति ॥२२॥ १ आश्चर्य तेऽपि जीवन्ति तेऽपि प्रहसन्ते तेऽपि क्रीडन्ति । उदरभरणेऽपि प्रेक्षन्ते नित्यमपरेषां ये वदनम् ॥१८॥ २ भगवन् ! प्रसीद प्रसीद, पुरतः शृणु । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy