SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 24 महाकविश्रीरामचन्द्रविरचितं मकरन्दः - ( सोत्सुकम् ) ततः किं कृतवती । तापसकुमारः -पञ्चशैले, नहि नहि अत्रैव प्रवर्धितवती । मकरन्दः - ( स्वगतम् ) निश्चितमयमतः परं कृत्रिममभिदधाति, तद् जाने स गर्भो मल्लिका । दर्शितानि च पञ्चशैलाधिवासिना श्रेष्ठिना ब्रह्मदत्तेन महाराजवैनतेयनामाकितान्यङ्गुलीयकानि । अनेन पुनमल्लिकासोदरेण भाव्यम् । तापसकुमारः - स गर्भः पुनरहम् । विषयाणां विशेषतश्च स्त्रीणां दुःखहेतुतां विज्ञाय तपोविधिमङ्गीकृतवानस्मि । मकरन्दः -भगवन् ! अतः परमनुभवविरुद्धमभिदधासि । नाम्नाऽपि यत्र सुदृशां परमः कलङ्कः तस्मै नमः शिवपथाय न तस्य चिन्ता। संसारवर्त्मनि पुनः सुदृशो विहाय विद्मो न किञ्चिदनघस्य सुखस्य बीजम् ॥१६॥ ( तापसकुमारः सात्त्विकभावान् नाटयन्नधोमुखस्तिष्ठति । ) मनोरमा - ( तापसं विलोक्य स्वगतम् ) नूणं सो एस पुरिसो ज चंदलेहा वावाइदुमिच्छति । भोदु, पुरो जाव जाणिस्सं । (प्रकाशम् ) तुमं पि किं पि अप्पणो चरिदं कहेसु । मकरन्दः -भद्रे ! खेचराणां चरितश्रावणे मनुजकीटानामस्मादृशामाकणितं चरितं किमधिकमाचर्यमाविष्करोति ? तथापि श्रुणु - सुवर्णद्वीपवासी जिनदत्तनामा क्रमागताद्भुतवैभवः परमधाभिकप्रकाण्डं वणिगस्ति। . मनोरमा - "तदो तदो ? मकरन्दः - तस्य चैक एव चरमवयःप्रसूतो बाल्यादपि दुरोदरप्रवासितपितृसम्पत्तिर्जठरपिठरीभरणमात्रेऽपि प्रत्यहं परमुखप्रेक्षो मकरन्दनामा सूनुरहम् । तापसकुमारः - अहह ! दुश्चरितसन्निवेशः। व्यसनं सौजन्यवतां कार्कश्यं योषितां श्रियां चलता। कार्पण्यं क्षोणिभृतां चत्वारि विधातुरधमानि ॥१७॥ मनोरमा - १ नूनं स एष पुरुष: यं चन्द्रलेखा व्यापादयितुमिच्छति, भवतु, पुरो यावद् ज्ञास्यामि । त्वमपि किमपि आत्मनः चरितं कथय । २ ततः ततः ? । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy