Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad
________________
मल्लिकामकरन्दनाटकम् । 'अच्छरियं ते वि जियंति ते वि पहसंति ते वि कीलंति ।
उयरभरणे वि पिच्छंति निच्चमवराण जे वयणं ॥१८॥ मकरन्दः - यौवनारम्भे च सब्जातवेश्याव्यसनोऽहम् ।
तापसकुमारः - ( सेारोषम् ) अतः परमश्रव्यचरितोऽसि, मा पुरो व्याहृथाः।
जात्यन्धाय च दुर्जनाय च जराजीर्णाखिलाङ्गाय च ___ ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय वा । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया __ पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ? ॥१९॥ मकरन्दः - भगवन् ! अनुचितमभिदधासि । जगतोऽपि यदिह निन्द्यं तद यासां धर्मकर्मवदनिन्द्यम् । तासां पंणहरिणदृशां गवेष्यते किमपरं श्रेयः ? ॥२०॥ अपि च - आगन्तुकेन कार्य घनसलिलं पणवधूवशीकरणम् । एतेषु त्रिषु शक्तो ब्रह्माऽपि न निर्णय कर्तुम् ॥२२॥
. ( तापसकुमारः सरोषमन्यतोऽवलोकयति । ) मनोरमा - भयवं ! पसीय पसीय, पुरओ सुणेहि ।
मकरन्दः - ( सविनयम् ) भगवन् ! कोऽयमस्मासु दैवहतकेषु सोऽयमप्रसादातिरेकः ? । प्रसीद, दुःश्रवमपि निर्भाग्यशेखरस्य मे श्रृणु चरितलेशवैशशम् ।
तापसकुमारः - ( सावज्ञम् ) तर्हि त्वरिततरमावेदय, अतिक्रमति मध्याइसवनसमयः ।
मकरन्दः - कार्पटिकवृत्तितया च ज्ञातिषु स्थातुमशक्यः सुवर्णद्वीपमपहाय पञ्चशैलं द्वीपमाश्रितोऽस्मि ।
तापसकुमारः-समुचितमाचरितम् । ___स्थातुं तेजस्विना शक्यं न जातिषु गतश्रिया ।
अस्तापास्तवपुर्भास्वान् नभस्तेन विमुञ्चति ॥२२॥ १ आश्चर्य तेऽपि जीवन्ति तेऽपि प्रहसन्ते तेऽपि क्रीडन्ति ।
उदरभरणेऽपि प्रेक्षन्ते नित्यमपरेषां ये वदनम् ॥१८॥ २ भगवन् ! प्रसीद प्रसीद, पुरतः शृणु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358