Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 298
________________ महाकविश्रीरामचन्द्रविरचितं मकरन्दः - ( सबाष्पम् ) पञ्चशैले च कुतोऽपि वल्लभाजनतः केनापि महीयसामश्राव्येण विधिना विप्रयुक्तः। तापसकुमारः - ( साशङ्कम् ) ततः किम् ?। । मकरन्दः - मरणार्थमात्मानमम्भोधौ पातयन्नेकमायातं भारुण्डपक्षिणमद्राक्षम् । ततः परमात्मानं सिद्धायतनोपवने विलोकितवानस्मि । तापसकुमारः - (स्वगतम् ) निश्चितमयं मांसलुब्धेन भारुण्डपक्षिणा रत्नसानाविह समानीतः। मकरन्दः - ततः प्रसीद, समादिश मे विरहवह्निदन्दह्यमानवपुषः किमपि मरणोपयिकम् । (नेपथ्ये) गृहाणैतद् देव्या समुपनीतं दिव्यफलनिकरम् । तापसकुमारः - अपरमपि किमपि प्रयोजनम् ? । देवलकः - योऽयं मर्त्यः समायातः स किमाकृतिः ? किमासन्नश्च ? इति परिज्ञातुमपरं प्रयोजनम् । तापसकुमारः - (सरोषम् ) एतेन किं ज्ञातेन ? । देवलकः – ( साक्षेपम् ) अमुं प्रश्नं नाहमर्हामि, किन्तु देवी चन्द्रलेखा । (-इत्यभिधाय निष्क्रान्तः । ) तापसकुमारः - ( वामाक्षिस्फुरणमभिनीय अपवार्य च ) मनोरमे ! यथाऽयं देवलकः साक्षेपवादी तथा जाने देवी चन्द्रलेखातः कोऽप्यपायो मकरन्दस्यास्य प्रत्यासन्नः । तत् कथय किमधुना समुचितमाधातुम् ? । (प्रविश्य ) मागधिका - (सम्भ्रान्ता ) 'अच्चाहिदं अच्चाहिदं । तापसकुमारः - ( सभयाशङ्कम् ) विश्रब्धमभिधीयताम् , कस्य अत्याहितम् ?। ( मागधिका कर्णे एवमेव । ) तापसकुमारः - ( सकम्पम् ) अहो ! मयि निरनुरोधा माता । ( विमृश्य ) १ अत्याहितं अत्याहितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358