SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ m महाकविश्रीरामचन्द्रविरचितं . . (ततः प्रविशति लतागृहस्थस्तापसकुमारः मनोरमा च ।) तापसः- (साश्चर्यमात्मगतम् ) अहो! जन्मान्तरदृश्यस्यार्थस्यात्रैव निदर्शनम् । उत्पातेषु महत्स्वपि सुमेधसा जीवितं न हातव्यम् । - सति जीविते कथञ्चिद् घटते किश्चित् पुनः प्रेयः॥१०॥ मकरन्दः - ( विलोक्य ) कथं तापसकुमारः अत्यन्तसदृशावयवस्तस्या मल्लिकायाः ?, जाने मल्लिका परिवृत्य वेधसाऽयं घटितः। भवतु, प्रणमामि । ( इति प्रणमति ।) तापसकुमारः - स्वस्ति, समीहितमाप्नुहि, मनोरमे ! आसनमुपनय । मकरन्दः - ( उपविश्य साभिलाषं स्वगतम् ) अहो ! गात्रस्य सौन्दर्यम् , अहो ! वाचां विदग्धता । अहो ! मध्यस्य तुच्छत्वम्, अहो ! श्रोणेविशालता ॥११॥ तापसकुमारः- कुतो भवानस्मिन् दिव्यजनसमुचितसञ्चारे रत्नसानौ समायातः ?। मकरन्दः - साम्प्रतं सिद्धायतनात् परतः पुनरहमपि न जानामि । मनोरमा - (सोपहासम्) 'परदो आगमणे अहं कहिस्सं । मकरन्दः -( सस्पृहमात्मगतम्) अमुमकृत यदङ्गनां न वेधाः स खलु यशस्वितपस्विनां प्रभावः । त्रिजगति कथमन्यथा कथाऽपि क्षततमसां तपसां पदं लभेत ? ॥१२॥ ( प्रकाशम् ) भगवन् ? अपरिचितमपि चिरपरिचितमिव मे हृदयम् , ततः किमपि प्रष्टुमभिलषामि। तापसकुमारः - न नाम सर्वाणि कर्माणि परिचयमपेक्षन्ते । ... क्षणदृष्टेऽपि कुत्रापि दृढं सङ्घटते मनः । बालस्तदात्वजातोऽपि जनन्याः स्निह्यति स्तने ॥१३॥ मकरन्द: न सर्वकामुकापेक्षं स्त्रीणां दौर्भाग्यलाञ्छनम् । हिमानी शाखिनां द्वेष्या यवस्तम्बस्य तु प्रिया ॥१४॥ १ परतः आगमने अहं कथयिष्यामि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy