Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 288
________________ महाकविश्रीरामचन्द्रविरचितं कृत्रिमैडम्बरैर्बाह्यः शक्यस्तोषयितुं जनः । . . आत्मा तु वास्तवैरेव हृतोऽयं परितुष्यति ॥ १७ ॥ । तदर्थ बायो लोकः साहसं यादृशं तादृशं वा मयि सम्भावयतु, मम पुनरात्माऽपि दुःखरक्षणीयः । तदेतस्मिन्नवसरेऽहं पञ्चपरमेष्ठिनमस्कारस्मरणेनाऽऽत्मनो रक्षा करोमि । ( प्रकाशम् ) आर्य ! मण्डलधूपार्थमुपनयत निर्गुण्डिकापत्राणि यावदह ट्यानमादधे । ( ध्यानं नाटयति ।) ... ( प्रविश्य बन्धुला निर्गुण्डीपत्राण्युपनयति । मकरन्दः क्षणेन मण्डलं प्रणम्य कुण्डलाभ्यां पूजयति । सर्वे सविस्मयमालोकयन्ति । ) श्रेष्ठी - ( अपवार्य ) सुन्दरक ! किमिदम् ?। सुन्दरकः - तदेवेदम्, यन्मया विपिनादागतेन युष्मभ्यमावेदितम् ।. . श्रेष्ठी - सम्भवति कितवस्य चौर्यकर्म । कोरकः - ( अपवार्य ) आर्य ! महतः कर्मणः साम्प्रतमारम्भाः , तदधुना न किमपि वक्तव्यम्। अपराधोऽपि सोढव्यो वाञ्छितार्थविधायिनः । र.दहन्नप्यग्निना तुन्दं गुल्मिभिः पूज्यते भिषक् ॥ १८॥ ... मल्लिका- (अपवार्य ) 'बन्धुले ! दिनें कि पि तुमए । बन्धुला - तं दिलं जं मणोरहेहिं पि न दिळं ।' ___ मल्लिका - "ता जीयंति मल्लियाए भागहेयाइं । श्रेष्ठी - ( अपवार्य बन्धुसुन्दरी प्रति ) प्रिये ! उत्तिष्ठ, सौधं बजामः । वयमेवानयोर्मल्लिका-मकरन्दयोर्बाह्याः। बन्धुसुन्दरी- अज्जउत्त ! जं तुवं भणासि तं सच्चं, पुरवं पि बंधुलाए ईविसं किं.पि मह कहिदं । मकरन्दः - रजनिरिदानीम् , अपसरतु बाह्यो लोकः । मल्लिकाभागधेयैरस्माभिश्चात्र स्थातव्यम् । ( मल्लिका-मकरन्दवर्ज सर्वे निष्क्रान्ताः । ) १ बन्धुले ! दृष्टं किमपि त्वया ? । २ तद् दृष्टं यद् मनोरथैरपि न दृष्टम् । ३ तद् जीवन्ति मल्लिकाया भागधेयानि । ४ आर्यपुत्र ! यत् त्वं भणसि तत् सत्यम् , पूर्वमपि बन्धुलया ईदृशं किमपि मम कथितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358