Book Title: Sambodhi 1978 Vol 07
Author(s): Dalsukh Malvania, H C Bhayani, Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 287
________________ मल्लिकामकरन्दनाटकम् । १९ मकरन्दः - (स्वगतम् ) न केवलं त्वया, अनयाऽप्यात्मा मे समर्पितः । (पुनः सविषादम् ) धिग्र मां कृतघ्नम्, नन्वहमुपवनदृष्टया युवत्या सत्यङ्कारितः कथमेतां स्पृहयामि ? । (प्रकाशम् ) अम्ब! सर्वमप्यहमाधास्ये यदि मण्डलोपकरणानि सन्निधास्यन्ते । बन्धुसुन्दरी- 'हला बंधुले ! किं अज्ज वि न सुंदरओ समागच्छदि । मकरन्दः - (साशङ्कमात्मगतम् ? ) बन्धुलेति शब्दः श्रुतपूर्वः, स्वरोऽप्ययं मल्लिकायास्तादृशो यादृशस्तस्या विपिनयोषितः। ततो यदि सैवेयं तदा सम्मुखीनः स भगवान् विरश्चिः । प्रयोजनं चैतदात्मीयमेव । (पुनः साभिलाषं मल्लिकामवलोक्य स्वगतम्) चलकमलविलासाभ्यासिनी नेत्रपत्रे दश[न]वसनभूमिबन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमागूढरूढयुतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥१६॥ (प्रविश्य सुन्दरक उपकरणान्युपनयति । ) मकरन्दः - उपविशतु निवसितसदशैकवसनाङ्गी मल्लिका, येन पुरो मंण्डलमारभ्यते । मल्लिका - ( सात्त्विकभावान् नाटयन्ती) अंब ! देहि मे हत्थावलंबणं जेण उडेमि । बन्धुसुन्दरी - (मकरन्द प्रति ) पुत्तया ! एदाए पुरदो वि तुमं हत्थावलंबणं, तं दाणिं पि होहि । ( मकरन्दः सरोमाञ्चं मल्लिकामुत्थाप्य पूर्वाभिमुखीमुपवेशयति ।) मल्लिका- (स्वगतम् ) *तादिसो एदस्स हत्थफंसो जादिसो मह हिययं संवाहयंतस्स उववणपुरिसस्स । साहसं पि तादिसं ज्जेव । ता किं नेदं । मकरन्दः - (मण्डलमाधाय स्वगतम् ) . १ हला बन्धुले ! किं अद्यापि न सुन्दरकः समागच्छति ? । . २ अम्ब | देहि मे हस्तावलम्बनं येन उत्तिष्ठामि ।। ३ पुत्रक । एतस्याः पुरतोऽपि त्वं हस्तावलम्बनम, तदिदानीमपि भव । ४ तादृश एतस्य हस्तस्पर्शः यादृशः मम हृदयं संवाहयतः उपवनपुरुषस्य । साहसमपि तादृशमेव । तत् किं नु इदम् ? । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358