________________
मल्लिकामकरन्दनाटकम् ।
१९ मकरन्दः - (स्वगतम् ) न केवलं त्वया, अनयाऽप्यात्मा मे समर्पितः । (पुनः सविषादम् ) धिग्र मां कृतघ्नम्, नन्वहमुपवनदृष्टया युवत्या सत्यङ्कारितः कथमेतां स्पृहयामि ? । (प्रकाशम् ) अम्ब! सर्वमप्यहमाधास्ये यदि मण्डलोपकरणानि सन्निधास्यन्ते ।
बन्धुसुन्दरी- 'हला बंधुले ! किं अज्ज वि न सुंदरओ समागच्छदि ।
मकरन्दः - (साशङ्कमात्मगतम् ? ) बन्धुलेति शब्दः श्रुतपूर्वः, स्वरोऽप्ययं मल्लिकायास्तादृशो यादृशस्तस्या विपिनयोषितः। ततो यदि सैवेयं तदा सम्मुखीनः स भगवान् विरश्चिः । प्रयोजनं चैतदात्मीयमेव । (पुनः साभिलाषं मल्लिकामवलोक्य स्वगतम्)
चलकमलविलासाभ्यासिनी नेत्रपत्रे
दश[न]वसनभूमिबन्धुजीवं दुनोति । स्मरभरपरिरोहत्पाण्डिमागूढरूढयुतिविजितमृगाङ्का मोदते गण्डभित्तिः ॥१६॥
(प्रविश्य सुन्दरक उपकरणान्युपनयति । ) मकरन्दः - उपविशतु निवसितसदशैकवसनाङ्गी मल्लिका, येन पुरो मंण्डलमारभ्यते ।
मल्लिका - ( सात्त्विकभावान् नाटयन्ती) अंब ! देहि मे हत्थावलंबणं जेण उडेमि ।
बन्धुसुन्दरी - (मकरन्द प्रति ) पुत्तया ! एदाए पुरदो वि तुमं हत्थावलंबणं, तं दाणिं पि होहि ।
( मकरन्दः सरोमाञ्चं मल्लिकामुत्थाप्य पूर्वाभिमुखीमुपवेशयति ।) मल्लिका- (स्वगतम् ) *तादिसो एदस्स हत्थफंसो जादिसो मह हिययं संवाहयंतस्स उववणपुरिसस्स । साहसं पि तादिसं ज्जेव । ता किं नेदं ।
मकरन्दः - (मण्डलमाधाय स्वगतम् ) . १ हला बन्धुले ! किं अद्यापि न सुन्दरकः समागच्छति ? । .
२ अम्ब | देहि मे हस्तावलम्बनं येन उत्तिष्ठामि ।। ३ पुत्रक । एतस्याः पुरतोऽपि त्वं हस्तावलम्बनम, तदिदानीमपि भव ।
४ तादृश एतस्य हस्तस्पर्शः यादृशः मम हृदयं संवाहयतः उपवनपुरुषस्य । साहसमपि तादृशमेव । तत् किं नु इदम् ? ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org