________________
१८
महाकविश्रीरामचन्द्रविरचित मकरन्दः - ( सस्पृहम् )
चक्षुर्वाष्पविकज्जलं करतलव्यासङ्गखण्डद्युति
गण्डश्रीरधरः खरः प्रसृमरैः सूत्कारतारोमिभिः ।। आहारप्रतिरोधकीकससिरामात्रा च गात्रावनि.... दृष्टिं प्रीणयते तथापि सुदती लेखेव शीतत्विषः ॥१४॥
मल्लिका - ( स्वगतम् ) 'अम्मो !, उववणदिद्वपुरिसपिम्मकीलिदं पि मे हिदयं कथं पुणो पुणो एदम्मि वच्चदि ? । अवि य एस किल लोयाणं पवादो
____ अन्नस्थ रागिणीओ रच्चंति न वम्महे वि महिलाओ।
. रुच्चइ न णाम राया वि तवणरत्ताण नलिणीणं ॥१५॥ सो उण महं दाणि विवरीदो जादो।
बन्धुसुन्दरी-वच्छे ! सत्था होहि । एस दे सव्वं पि सरीरवियण दाहज्जरं च अवणइस्सदि।
श्रेष्ठी - प्रिये !अत्यल्पमभिदधासि, देवतापहारमप्येष वत्साया अपनेष्यते ।
मल्लिका - ( साक्षेपम् ) 'ताद ! एदेणं जेव अवहरिदा। किं देवदा अवहरिस्सदि ।
बन्धुसुन्दरी - ( साशङ्कम् ) अज्जउत्त ! किं एसा, ईदिस लज्जायरं जंपदि।
श्रेष्ठी - पिये ! मा भैषीः, दाहज्वराभिभवेनात्स्वमायितमिदम् ।
बन्धुसुन्दरी - ( सदैन्यम् ) पुत्तया ! एसा मह धूया तुम समप्पिदा, तहा कहं करेहि जहा निव्वुइं लहइ ।
१ आश्चर्यम् , उपवनदृष्टपुरुषप्रेमकीलितमपि मे हृदयं कथं पुनः पुनः एतस्मिन् ब्रजति ? । अपि च एष किल लोकानां प्रवादः - अन्यत्र रागिण्यः रज्यन्ते न मन्मथेऽपि महिलाः । रोचते न नाम राजाऽपि तपनरक्ताभ्यो नलिनीभ्यः ॥ १५॥
स पुनः मम इदानीं विपरीतो जातः । २ वत्से ! स्वस्था भव, एष ते सर्वामपि शरीरवेदनां दाहज्वरं च अपनेष्यते । ३ तात ! एतेन एव अपहृता । किं देवता अपहरिष्यति ? । ४ आर्यपुत्र ! कि एषा ईदृशं लज्जाकर जल्पति ? । ५ पुत्रक ! एषा मम पुत्री तुभ्यं समर्पिता, तथा कथं कुरु यथा निर्वृति लभते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org