SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । मल्लिका -'हला लवंगिके ! अवणेहि वच्छत्थलादो नलिणीवत्ताई, करेहि सहाणेसु मे निवसणाई । देहि मे हत्थावलंबणं जेण अंबाए तादस्स य अब्भुट्ठाणं करेमि । श्रेष्ठी-वत्से ! पर्यङ्कस्थिता यथासुखमास्स्व । मास्माभ्युत्थाने क्लेशमातथाः । ( मकरन्दं प्रति, अपरं प्रति ) दाहज्वरेण सर्वाङ्गीणमभिभूतायास्तदेतदष्टमं दिनं वत्साया एतस्याः। मकरन्दः - ( स्वगतम् ) केयूराणि मृणालजानि कुचयोः श्रीषण्डवारिच्छटाः — शय्या बालसरोजिनीदलमयी हारोऽपि रम्भोद्भवः । अङ्गं सान्द्रजलाईमङ्गणभुवो मल्लीवितानाञ्चिता. वेषः सैष वियोगरोगविषमामस्या दशां शंसति ॥१०॥ माता-पितरौ पुनरपहारदुःखमावेदयतः। तत् किमिदं परस्परविरुद्धम् ? । मल्लिका - ( मकरन्दमवलोक्य स्वगतम् ) "एदस्स देहलहिँ काउं विहिणा विरम्मिया विरई। इहरा कह कस्स वि नत्थि इत्थ एयारिसं रूवं? ॥११॥ ( पुनः सस्पृहम् ) 'जइ कह वि रई पिच्छिज्ज एयमसरिससरीरसुंदेरं । . सिढिलीकरिज्ज ता तम्मि पिम्मगंठिं अगंगम्मि ॥१२॥" 'अहवा- .. ... ववसाओ च्चिय पुरिसाणमणुवमो मंडणं सरीरस्स । - रूवं पि पुणो जइ हुज्ज ता जियं हरिणनयणाहिं ॥१३॥ १ हला लवङ्गिके ! अपनय वक्षःस्थलाद् नलिनीपत्राणि, कुरु स्वस्थानेषु मे निवसनानि । देहि मे हस्तावलम्बनं येन अम्बायाः तातस्य च अभ्युत्थानं करोमि । २ एतस्य देहयष्टिं कृत्वा विधिना विरचिता विरतिः । इतरथा कथं कस्यापि नास्ति अत्र एतादृश रूपम् ? ॥११॥ ३ यदि कथमपि रतिः प्रेक्षेत एतमसदृशशरीरसौन्दर्यम् । शिथिलीकुर्यात् तत् तस्मिन् प्रेमग्रन्थि अनगे ॥ १२ ॥ ४ अथवा- . व्यवसाय एव पुरुषाणामनुपमो मण्डनं शरीरस्य । रूपमपि पुनः यदि भवेत् तद् जितं हरिणनयनाभिः ॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy