SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ महाकवि श्रीरामचन्द्रविरचित मकरन्दः –( स्वगतम् ) महासाहसैकसाध्योऽयमर्थौ न बाह्यमाडम्बरमपे'क्षते । तथापि तदवश्यमाधेयम् । १६ पांसि भूरुहां हेतुर्न पुनर्गर्जितारवः । माघे तथापि गर्जन्ति क्षोभाय जनचेतसाम् ||८|| ( प्रकाशम् ) आर्य ! अनादिसिद्धे मीमांसा विश्ववर्त्मनि का सताम् ? | रूपजीवाः स्त्रियः सृष्टाः पुमांसो न पुनः कथम् ? ॥९॥ श्रेष्ठी - प्रस्तुतमभिधीयताम् । मकरन्दः - प्रस्तुतमिदम् - 'मन्त्रमण्डल पूजापूर्वकं सर्वमनुष्ठानम्' इति भवतामपि प्रसिद्धम् । अतो मण्डलोपकरणेषु विचारो नः कर्त्तव्यः । श्रेष्ठी - अवश्यं कर्त्तव्यः । मकरन्दः - तर्हि समानयत सद्यः प्रसूत व्याघ्रीक्षीरम् सम्पादयत विन्ध्यचमरीशृङ्गगोरोचनाम्, ढौकयत वानेयगजप्रथमदानवारि । " श्रेष्ठी - अवशिष्यते किमपि ? | मकरन्दः - अवशिष्यते षोडशवर्षदेशीयखल्वाट पुरुषचितावह्निः । श्रेष्ठी - ( शिरो धूनयित्वा ) असुरसङ्घ[ट]नः विशेषतो वरियम् । भवतु, कोऽत्र भोः ! ? । ( प्रविश्य ) सुन्दरकः - एषोऽस्मि । ( श्रेष्ठी सुन्दरस्य कर्णे एवमेव ) ( सुन्दरो निष्क्रान्तः । ) श्रेष्ठी - यावदुपकरणानि सन्निधीयन्ते तावदागच्छत यूयं वच्छाया मल्लिकायाः समीपम् । हला लवङ्गिके ! गत्वा ब्रूहि वत्साम् - समयोऽयमस्मदागमनस्य । (नेपथ्ये ) 'समओ वट्टदिता एदु तादो । Jain Education International सर्वोऽप्युपकरणप्रपञ्चः, ( सर्वे गृहोपवनमुपविशन्ति । ) ( ततः प्रविशति विरहावस्थां नाटयन्ती मल्लिका लवङ्गिकाप्रभृतिकश्च परिवारः । ) १ समयो वर्त्तते तद् एतु तातः । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy