Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 270
________________ ननु ध्वनिविशिष्टार्थज्ञानेनापि चमत्कारोदयात्ध्वनिविशिष्टार्थज्ञाने चमत्कृतिजनकता तदवच्छेदकतावच्छेदकत्वं च ध्वनौ वर्तत, इत्येतस्यापि अलङ्कारत्वम् । एतेन ध्वनौ व्यङ्गयार्थस्य सत्वान्नालङ्कारत्वम् । __ एवं सत्यपि रसवत्प्रेयङ्गर्जस्विसमाहितेषु चतुर्वलङ्कारेषु व्यङ्गयार्थसद्भावान्नालङ्कारत्वं स्याद् तेन लक्षणेन । मन्यन्ते च तत्रालङ्कारत्वं सर्वैरिति चेत् तदा रसवदादिभिन्नव्यङ्गयभिन्नत्वे सतीति विशेषण विशिष्ट-सत्पन्नविशेषणोपादनं कर्त्तव्यम्, तेन उक्तलक्षणे न कोऽपि दोषः । अथ शब्दालङ्काराः १ अनुप्रासः- 'प्रकर्षश्चाऽव्यवधानेन न्यासः स एव च सहृदयहृदयानुरञ्जकः' । साहित्यदर्पणे-अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् । काव्यप्रकाशे- 'वर्णसाम्यमनुप्रासः'। सोऽयं अनुप्रासः वर्णगतः शब्दगतश्चेति द्विविधः । निरर्थकवर्णानुप्रासः प्रथमः। द्वितीयस्तु सार्थकः वर्णानुप्रासः । अनुप्रासः पञ्चविध: (क) छेकानुप्रासः- तत्र प्रथमो छेकानुप्रासः छेकवृत्तित्वेन द्विविधः । प्रथमः यत्र स्वराः व्यञ्जनानि च तेषां सन्दोहः साम्यं स्तोमो वा तस्य व्यूहावृत्तिर्यस्यां सा । यद्वा साहित्यरत्नमञ्जूषा-१७५ .

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360