Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 330
________________ विचारकः समभवत् । प्रतोऽनेन रसादेव ध्वनेर्महत्त्वं प्रतिष्ठापितम् । अस्य मतानुसारेण रस-भावादीनां प्रतीति व्यंग्यद्वारैव भवति । रसस्य महत्त्वं व्यञ्जनाशक्त ेरनुसारेण स्फुटी भवति । अस्य विवेचनेन रस-ध्वनिसिद्धान्तयोर्मध्येऽन्तसम्बन्धसंस्थापितोऽभवत् ध्वनिकारैर्ध्वनिविषये वस्तुध्वनिः, अलंकारध्वनिः । इति द्वयोरेवोल्लेखः कृतोऽभूत् किन्तु अभिनवगुप्तेनोद्दुष्टं काव्यं रसेनैव जीवति, रसमन्तरा काव्यं न सम्भवति । अतो रसध्वनिः स्वीकार्या । वस्तुतस्तु वस्त्वलंकाराभ्यामपि रस एव बोध्यते । इत्थञ्चाभिनवगुप्तेन रसध्वनिसिद्धान्तयोः समीचीनसम्बन्धसंस्थापितः । ध्वनि सम्प्रदायोन्नायकेषु सर्वाधिक महत्त्वपूर्ण आचार्यमम्मटो बभूव । अयञ्च ध्वनिप्रस्थापनपरमाचार्यपदेनापि प्रसिद्धिमावहति । ध्वनिसिद्धान्तं समीचीनतया व्यवस्थापयितुं परिपोषयितुञ्चास्य महत्त्वमतिरोहितं प्रेक्षावताम् । आचार्य मम्मटो मूलतो ध्वनिवादी सञ्जातः । अतएव काव्यप्रकाशस्य पञ्चमोल्लासे व्यञ्जनाविरोधीनां मतखण्डनं विधाय व्यञ्जनाव्यापारं संस्थापितवान् । मम्मटानन्तरं साहित्यरत्नमञ्जूषा - २३५

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360