Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 336
________________ "परतो न तत्त्वचिन्ता , तद्वन्तः स्युर्मुखस्थगुणदोषैः । एको हि सितः पक्षः कौमुद्या तुल्ययाऽपि कृष्णोऽन्यः ॥ १॥" ४. कुन्दकुड्मलानां कामिदन्तानां रक्तत्वस्याभावो वर्त्तते । यथा"सुश्वेतकुन्दकुड्मल-विमलदती यो विहाय राजिमतीम् । मोक्षाङ्गनानुरक्तो, बभूव नेमिः स वः पायात् ॥१॥" ५. दिवा नीलोत्पलादीनां विकासस्याऽभावो वर्त्तते । यथा-शिशुपालमाघकाव्ये वर्णने"कुमुदवनमपनि श्रीमदम्भोजखण्ड, ___ त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुरस्तं , हतविधिलसितानां हि विचित्रो विपाकः ॥१॥" इति वस्तु सतां भावानामनिबन्धविषये ज्ञेयम् । २- क्वचिद वस्तु असतामपि भावानां निबन्धनं काव्येषु प्रदर्श्यते । १. यथा मृणालानां जलाशयमात्रे निबन्धः यथा लक्षण साहित्यग्रन्थेषु उदाहरणं निबन्धनस्य । साहित्य-१६ साहित्यरत्नमञ्जूषा-२४१

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360