Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 344
________________ १८- पुरवर्णने यथा"पुरेषु बहुप्रासादाः, विपण्यां जनसंमदः । परिखावप्रवाप्यानां, बाहुल्यं मणिकादिषु ॥" श्लोकेस्मिन् पुरवर्णनं प्रोक्तिमिति । १६- ग्रामवर्णने यथा"ग्रामे सघनवृक्षाली, पशु-धान्य-धनं बहु । वाप्यरघट्टकेदारा ग्रामेयीमुग्धविभ्रमाः ॥" अत्र ग्रामवर्णनमुक्तमिति । २०- अरण्यवर्णने यथा"वने सिंह-गज-व्याघ्र-, व्याल-वराह-वृक्षकाः । काकोलूककपोताद्या भिल्लभल्लदवादयः ॥" अत्र अरण्यवर्णनं कथितमिति । ___ २१- उद्यानवर्णने यथा"उद्याने कुञ्जवृक्षारणां, बाहुल्यं विहगादिषु । मल्लिका-मालती-गन्धः, वापिमध्ये सरोरुहाः ॥" अस्मिन् श्लोके उद्यानवर्णनमुक्तमिति । साहित्यरत्नमञ्जूषा-२४९ ।

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360