Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 345
________________ २२- आश्रमवण ने यथा"पाश्रमेऽतिथिपूजैरण-विश्वासो हिस्रशान्तता। यज्ञधूमो मुनिसुता द्रुसेको वल्कलद्रुमाः ॥" श्लोकेऽस्मिन् आश्रमवर्णनं प्रोक्तमिति । २३- पर्वतवर्णने यथा"शैले काष्टौषधिधातु-वंशविद्याधरादयः । सिंहा व्यालाश्च रिक्षादि, चरन्ति दस्युदानवाः ॥" अत्र पर्वतवर्णनं प्रोक्तमिति । २४- समुद्र वर्णने यथा"अब्धौ द्वीपाद्रिरत्नोमि-पोतयादो जगत्प्लवाः । विष्णुकुल्यागमश्चन्द्राद्, वृद्धिमत् घोषपूरितः ॥" अस्मिन् श्लोके समुद्रवर्णन मुक्तमिति । ___ २५- नदीवर्णने यथा"सरत्यम्बुधियायित्वंः, वीच्यो जलगजादयः । पद्मानि षट्पदा हंसा-चक्राद्याः कुलशाखिनः ॥" श्लोकेऽस्मिन् नदीवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा-२५०

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360