Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 347
________________ ३०- वसन्तऋतुवर्णने यथा"वसन्ते दोलाकोकिल-मारुतसूर्यगतितरुदलोभेदाः । जातीतरपुष्पचयाऽम्रमंजरीभ्रमरझंकाराः॥" अत्र वसन्तऋतुवर्णनं प्रोक्तमिति । ३१- ग्रीष्मऋतूवर्णने यथा"ग्रीष्मे पाटलमल्ली-तापसरः पथिकशोषवाताल्यः। सक्तुप्रपाप्रपास्त्री - मृगतृष्णाम्रादिफलपाकाः ॥" अस्मिन् श्लोके ग्रीष्मऋतुवर्णनमुक्तमिति । ___३२- वर्षाऋतुवर्णने यथा"वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलोद्भदौ । जातीकदम्बकेतक-भंभानिलनिम्नगा-हलिप्रीतिः ॥ श्लोकेऽस्मिन् वर्षाऋतुवर्णनं प्रोक्तमिति । ३३- शरदऋतुवर्णने यथा"शरदीन्दुरविपदुत्वं जलाच्छतागस्त्यहंसवृषदः । सप्तच्छदपद्मसिता-भ्रधान्यशिखिपक्षमदपाताः ॥" अत्र शरदऋतुवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा-२५२

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360