________________
३०- वसन्तऋतुवर्णने यथा"वसन्ते दोलाकोकिल-मारुतसूर्यगतितरुदलोभेदाः ।
जातीतरपुष्पचयाऽम्रमंजरीभ्रमरझंकाराः॥" अत्र वसन्तऋतुवर्णनं प्रोक्तमिति ।
३१- ग्रीष्मऋतूवर्णने यथा"ग्रीष्मे पाटलमल्ली-तापसरः पथिकशोषवाताल्यः। सक्तुप्रपाप्रपास्त्री - मृगतृष्णाम्रादिफलपाकाः ॥" अस्मिन् श्लोके ग्रीष्मऋतुवर्णनमुक्तमिति ।
___३२- वर्षाऋतुवर्णने यथा"वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलोद्भदौ । जातीकदम्बकेतक-भंभानिलनिम्नगा-हलिप्रीतिः ॥ श्लोकेऽस्मिन् वर्षाऋतुवर्णनं प्रोक्तमिति ।
३३- शरदऋतुवर्णने यथा"शरदीन्दुरविपदुत्वं जलाच्छतागस्त्यहंसवृषदः । सप्तच्छदपद्मसिता-भ्रधान्यशिखिपक्षमदपाताः ॥" अत्र शरदऋतुवर्णनं कथितमिति ।
साहित्यरत्नमञ्जूषा-२५२