Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 348
________________ ३४ - हेमन्त शिशिर ऋतुवर्ण नयोः यथा "हेमन्ते रवितनुता शीतंय वस्तम्बमरुबकहिमानि । शिशिरे शुष्कगोमयत्वं कुमुदाम्बुजदाहशिखरतोत्कर्षाः || ” अस्मिन् श्लोके हेमन्त-शिशिरऋतुवर्णनं प्रोक्तमिति । ३५- सुरापानवर्ण' ने - यथा " सुरापाने गतिभंगः, वचने स्खलना भ्रमः । लज्जा मानापमानेषु, तिरस्कारं पदे पदे ।। " श्लोकेऽस्मिन् सुरापानवर्णनमुक्तमिति । ३६ - विवाहवर्णने यथा “विवाहे वरमात्रा हि, स्त्रियाणां मधुरध्वनिः । लाजा होमादिवेदीषु, मङ्गलं पाणिपीडनम् ॥ " अत्र विवाहवर्णनं प्रोक्तमिति । ३७- स्वयंवरवर्णने “स्वयंवरे कुमाराणां, मञ्चमण्डपशोभनम् । राजपुत्र्याः निजोद्वाहं, क्रीयते निजचेष्टया ॥" अस्मिन् श्लोके स्वयंवरवर्णनं कथितमिति । साहित्यरत्नमञ्जूषा - २५३ -

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360