Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 354
________________ स्याद् जातिराकृतिश्चैव, ख्यातो द्वाविंशतिः सदा । वन्दनीया जिनाः सिद्धाः, स्युश्चतुर्विंशतिः मुदा ॥८॥ तथा तत्त्वमपि प्रोक्तं, प्रसिद्ध पञ्चविंशतिः । सप्तविंशति ऋक्षारिण, द्वात्रिंशद् दशना द्विजाः ॥६॥ त्रयस्त्रिशत् सुराः ख्याताः, वणिताः साक्षरैः सदा । तथा तानादयो शब्दाः, ऊनपञ्चाशदूचिरे ॥१०॥ पर्यायवाचकैः शब्दः, कल्पनीया तथाऽपि वै । सङ्ख्याङ्कानां च वै संज्ञा, सुधिया धियाऽऽ साम् ॥११॥ इत्यत्र संक्षेपतः कविसमयः समासतो निदर्शितः । विशेषाणिजिज्ञासुना काव्यानुशासन - तदीयविवेक-काव्यप्रकाश-साहित्यदर्पण-तट्टीकादयो ग्रन्था अवलोकनीयाः ।। साहित्यरत्नमञ्जूषा-२५९ ।

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360