Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 339
________________ ५. हिमगिरावेव भुर्जजन्म नैयत्येन वर्ण्यते । ६. ताम्रपण्यां एव मौक्तिकानि नैयत्येन वर्ण्यते । इत्यादयो अनेकाः नैयत्येन वर्ण्यते इति । ४- कुत्रचिद भिन्नानामप्यक्यम् , तत्र कृष्ण-नील हरित-श्यामानां ऐक्यं यथा"सजलजलदनीला भाति यस्मिन् वनाली मरकतमणिकृष्णो यत्र नेमिजिनेन्द्रः । विकचकुवलयालि-श्यामलं यत्सरोम्भः , प्रमदयति न कांस्कांस्तत्पुरं राहडस्य ॥ १॥" अस्मिन् श्लोके कृष्ण-नील-हरित-श्यामानां भिन्नत्वेऽपि ऐक्यं निबध्यते। श्वेत-गौरयोरैक्यं यथा रघुवंशकाव्ये"कैलासगौरं वृषमारुरुक्षोः , पादापरणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः, कुम्भोदरं नाम निकुम्भमित्रम् ॥ १॥" श्लोकेऽस्मिन् श्वेत-गौरयोः भिन्नत्वेऽपि ऐक्यं निबध्यते । साहित्यरत्नमञ्जूषा-२४४

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360