Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram
________________
पीत-रक्तयोरक्यं यथा"नवकनकपिशङ्ग वासराणां विधातुः, ककुभि कुलिशपारणे ति भासां वितानम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ,
चलितमिव महाब्रुव॑मौर्वानलाचिः ॥१॥" अत्र पीत-रक्तयोः भिन्नत्वेऽपि ऐक्यं निबध्यते । एवं रक्त-गौरयोः इन्दौ शशमृगयोः कामध्वजे मकरमत्स्ययोः कन्दर्पस्य मूर्तत्वाऽमूर्त्तत्वयोः भिन्नत्वेऽपि ऐक्यं निबध्यते ।
५- देविवर्णने विज्ञान-चातुर्यत्रपाशीलव्रतम्, रूपं, लावण्यं, सौभाग्यं, प्रेम, शृङ्गार इत्यादयो वर्ण्यन्ते ।
६- मन्त्रवर्णने यथा"मन्त्रे पञ्चाङ्गता शक्तिषाड्गुण्योपायसिद्धयः ।
उदयाश्चिन्तनीयाश्च, स्थैयौन्नित्यादिसूक्तयः ॥" अस्मिन् श्लोके मन्त्रवर्णनं प्रोक्तमिति ।
७- नृपवर्णने विद्या, वयः, शक्तिः, प्रजाशास्तिः, प्रजारागः ,धर्मार्थकामेषु तुल्यतादिकं वर्ण्य ते ।
साहित्यरत्नमञ्जूषा-२४५
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360