Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 335
________________ इत्यादि बहुप्रकारा लोकनिरपेक्षा कवीनां प्रवृत्तिः प्रवर्तते । साऽत्र संक्षेपात् प्रदर्श्यते । १- सतां भावानामनिबन्धनम् १. वसन्तऋतौ मालत्याऽभावोयथा"मालती विमुखश्च त्रो, विकासी पुष्पसम्पदाम् । आश्चर्य जातिहीनस्य , कथं सुमनसः प्रियाः ॥१॥" २. चन्दनवृक्षे पुष्प-फलयोरभावो यथा"सा छाया स च सुन्दरः परिमलस्ते कोमलाः पल्लवाः, भ्रान्तश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । दृप्यद्दुष्टभुजङ्गसंगतिवशादापादमूलागतेरानीतं फलमन्यतोऽपि पथिकैः साशङ्कमास्वाद्यते ॥१॥" ३. मासस्य कृष्णपक्षे ज्योत्स्नायाः अभावो वर्तते, तथा मासस्य शुक्लपक्षे तिमिरस्य प्रभावो वर्तते । अत्र कृष्णपक्षे शुक्लपक्षे च यथा साहित्यरत्नमञ्जूषा-२४०

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360