Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 334
________________ औचित्यं रसस्य जीवनमस्ति, रस काव्यस्यात्मा । औचित्यमन्तरा काव्यं निश्चप्रचत्वेनोपहासप्रदमेव सञ्जायते । अत्र कुप्पूस्वामिन उक्तिरपि विशेषेण समादरणीयाप्रचितीमनुधावन्ति सर्वे ध्वनिरसोन्नयाः । गुणालङ कृतिरीतिनां नयाश्वानृजुवाङ्मयाः || आचार्य क्षेमेन्द्रस्य समयः एकादशशताब्दद्याः उत्तरार्द्धः स्वीक्रियते । विवेचनेनानेन काव्यशास्त्रीय - कविसम्प्रदायानां सामान्यपरिचयो विजायते । काव्यात्मतत्त्वजिज्ञासायां पल्लवितः सम्प्रदायविभेदः । वस्तुतस्तु काव्यतत्त्वमक्षुण्णमेव रुचीनां वैचित्र्यात् सम्प्रदायभेदत्वमुपयाति । निरङ्कुशाः कवयः कविसम्प्रदाये कवीनां निरंकुशत्वमिति विषयोऽनुप्रेक्षणीय इति जिज्ञासायां तेषां निरंकुशोक्तीनां वैचित्र्यञ्चात्रैव परम्पराप्राप्तं विविच्यते 'कवयः निरंकुशाः भवन्ति' । वस्तुवर्णने क्वचित् सत्तायामपि तस्याभावेऽपि वस्तूनां तद्भावं वर्णयन्ति । साहित्यरत्नमञ्जूषा - २३९

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360