________________
औचित्यं रसस्य जीवनमस्ति, रस काव्यस्यात्मा । औचित्यमन्तरा काव्यं निश्चप्रचत्वेनोपहासप्रदमेव सञ्जायते ।
अत्र कुप्पूस्वामिन उक्तिरपि विशेषेण समादरणीयाप्रचितीमनुधावन्ति सर्वे ध्वनिरसोन्नयाः । गुणालङ कृतिरीतिनां नयाश्वानृजुवाङ्मयाः || आचार्य क्षेमेन्द्रस्य समयः एकादशशताब्दद्याः उत्तरार्द्धः स्वीक्रियते ।
विवेचनेनानेन काव्यशास्त्रीय - कविसम्प्रदायानां सामान्यपरिचयो विजायते । काव्यात्मतत्त्वजिज्ञासायां पल्लवितः सम्प्रदायविभेदः । वस्तुतस्तु काव्यतत्त्वमक्षुण्णमेव रुचीनां वैचित्र्यात् सम्प्रदायभेदत्वमुपयाति ।
निरङ्कुशाः कवयः
कविसम्प्रदाये कवीनां निरंकुशत्वमिति विषयोऽनुप्रेक्षणीय इति जिज्ञासायां तेषां निरंकुशोक्तीनां वैचित्र्यञ्चात्रैव परम्पराप्राप्तं विविच्यते
'कवयः निरंकुशाः भवन्ति' । वस्तुवर्णने क्वचित् सत्तायामपि तस्याभावेऽपि वस्तूनां तद्भावं वर्णयन्ति ।
साहित्यरत्नमञ्जूषा - २३९