________________
चितरूपेण विकसितो नाभूत् । कुन्तकस्य समयः एकादशशताब्द्याः पूर्वार्धो मन्यते ।।
औचित्यसम्प्रदायः औचित्यसम्प्रदायस्याचार्यः क्षेमेन्द्रः । औचित्याग्रहो भरतस्य नाट्यशास्त्रेऽपि वर्तते । अानन्दवर्धनोऽपि स्वीकृतवान् यत् रसस्य मौलिक रहस्यमौचित्यमिति
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥
ध्वन्यालोकः ३/१४
आचार्याभिनवगुप्तोऽपि औचित्यं ध्वनितत्त्वञ्च परस्परोपकारकरूपेणाङ्गीकृतवान् । क्षेमेन्द्रो ध्वनिवादी सन्नपि औचित्यं व्यापकतत्त्वरूपेणोद्भावयति । औचित्यविचारचर्चायां काव्यशास्त्रस्यान्य सिद्धान्तान् औचित्ये आत्मसात् कुर्वन् प्रोवाच
अलंकारास्त्वलंकारा गुरणा एव गुरणाः सदा । औचित्यं रससिद्धस्य, स्थिरं काव्यस्य जीवितम् ।।
क्षेमेन्द्रः उचितस्य भावः, औचित्यमित्येव स्वीकरोति"उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ।"
साहित्यरत्नमञ्जूषा-२३८