________________
जनिकेति स्वीक्रियते । अन्यच्च- 'वक्रोक्तिः काव्यजीवितम्' इति स्वीकृत्य सा काव्यस्यात्मपदे प्रतिष्ठापिता ।
मान्यतैषा परिवर्तिनिकाले पुनः काव्यस्यात्मपदात् परिभ्रष्टा, मात्रमलंकारस्वरूपे स्वीकृता। यतो हि वक्रोक्तिमाध्यमेन काव्यचमत्कारो निरूप्यते । वर्णसम्बन्धिसूक्ष्मतत्त्वात्, बाह्यसौन्दर्याच्चारभ्य प्रबन्धवक्रतापर्यन्तं वक्रोक्त: क्षेत्रम् । अत्र च गुणरीत्यलंकारध्वनि-प्रबन्धसंगठनौचित्य रसादीनामंशतः समावेशोऽपि सञ्जायते । काव्यचमत्कारस्य सूक्ष्मविवेचनाय वक्रोक्तिसिद्धान्तः एकः सूक्ष्मो व्यापक: सर्वाङ्गपूर्णश्च वरीवति । 'अरिस्टोटललांजीनस-एडीसन-क्रोचे'- इत्यादिभिः पाश्चात्य-विचारकैः स्वकीयसिद्धान्तेषु वक्रोक्त: महत्त्वपूर्ण स्थानमङ्गीक्रियते ।
आचार्यकुन्तकः उक्तिवक्रताजन्यः काव्यस्य आह्लादः इति स्वीचकार । वस्तुतस्तु काव्यालादादेवोक्तिवक्रता समायाति । कविः उद्दीप्तमनोभावान् भावयितु विशिष्टाह्लादं रसं वा अनुभवति तथा च अस्मादाह्लादात् रसादा उक्तौ वक्रतावैचित्र्यं समायाति । अतएव रस एव काव्यात्मा भवितुमर्हति वक्रोक्तिरनिवार्या सत्यपि काव्यजीवितं भवितु नार्हति । वक्रोक्तिसम्प्रदायो योग्योत्तराधिकारिणोऽभावात् समु
साहित्यरत्नमञ्जूषा-२३७ ।