Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 332
________________ जनिकेति स्वीक्रियते । अन्यच्च- 'वक्रोक्तिः काव्यजीवितम्' इति स्वीकृत्य सा काव्यस्यात्मपदे प्रतिष्ठापिता । मान्यतैषा परिवर्तिनिकाले पुनः काव्यस्यात्मपदात् परिभ्रष्टा, मात्रमलंकारस्वरूपे स्वीकृता। यतो हि वक्रोक्तिमाध्यमेन काव्यचमत्कारो निरूप्यते । वर्णसम्बन्धिसूक्ष्मतत्त्वात्, बाह्यसौन्दर्याच्चारभ्य प्रबन्धवक्रतापर्यन्तं वक्रोक्त: क्षेत्रम् । अत्र च गुणरीत्यलंकारध्वनि-प्रबन्धसंगठनौचित्य रसादीनामंशतः समावेशोऽपि सञ्जायते । काव्यचमत्कारस्य सूक्ष्मविवेचनाय वक्रोक्तिसिद्धान्तः एकः सूक्ष्मो व्यापक: सर्वाङ्गपूर्णश्च वरीवति । 'अरिस्टोटललांजीनस-एडीसन-क्रोचे'- इत्यादिभिः पाश्चात्य-विचारकैः स्वकीयसिद्धान्तेषु वक्रोक्त: महत्त्वपूर्ण स्थानमङ्गीक्रियते । आचार्यकुन्तकः उक्तिवक्रताजन्यः काव्यस्य आह्लादः इति स्वीचकार । वस्तुतस्तु काव्यालादादेवोक्तिवक्रता समायाति । कविः उद्दीप्तमनोभावान् भावयितु विशिष्टाह्लादं रसं वा अनुभवति तथा च अस्मादाह्लादात् रसादा उक्तौ वक्रतावैचित्र्यं समायाति । अतएव रस एव काव्यात्मा भवितुमर्हति वक्रोक्तिरनिवार्या सत्यपि काव्यजीवितं भवितु नार्हति । वक्रोक्तिसम्प्रदायो योग्योत्तराधिकारिणोऽभावात् समु साहित्यरत्नमञ्जूषा-२३७ ।

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360