________________
विचारकः समभवत् । प्रतोऽनेन रसादेव ध्वनेर्महत्त्वं प्रतिष्ठापितम् । अस्य मतानुसारेण रस-भावादीनां प्रतीति व्यंग्यद्वारैव भवति । रसस्य महत्त्वं व्यञ्जनाशक्त ेरनुसारेण स्फुटी भवति । अस्य विवेचनेन रस-ध्वनिसिद्धान्तयोर्मध्येऽन्तसम्बन्धसंस्थापितोऽभवत् ध्वनिकारैर्ध्वनिविषये वस्तुध्वनिः, अलंकारध्वनिः । इति द्वयोरेवोल्लेखः कृतोऽभूत् किन्तु अभिनवगुप्तेनोद्दुष्टं काव्यं रसेनैव जीवति, रसमन्तरा काव्यं न सम्भवति । अतो रसध्वनिः स्वीकार्या । वस्तुतस्तु वस्त्वलंकाराभ्यामपि रस एव बोध्यते ।
इत्थञ्चाभिनवगुप्तेन रसध्वनिसिद्धान्तयोः समीचीनसम्बन्धसंस्थापितः ।
ध्वनि सम्प्रदायोन्नायकेषु सर्वाधिक महत्त्वपूर्ण आचार्यमम्मटो बभूव । अयञ्च ध्वनिप्रस्थापनपरमाचार्यपदेनापि प्रसिद्धिमावहति । ध्वनिसिद्धान्तं समीचीनतया व्यवस्थापयितुं परिपोषयितुञ्चास्य महत्त्वमतिरोहितं प्रेक्षावताम् ।
आचार्य मम्मटो मूलतो ध्वनिवादी सञ्जातः । अतएव काव्यप्रकाशस्य पञ्चमोल्लासे व्यञ्जनाविरोधीनां मतखण्डनं विधाय व्यञ्जनाव्यापारं संस्थापितवान् । मम्मटानन्तरं
साहित्यरत्नमञ्जूषा - २३५