________________
यात् प्रागपि काव्यशास्त्रे मौलिकता आसीत् । किन्तु तस्मिन् परिपक्वतया प्रभावो व्यज़म्भत । आनन्दवर्धनाचार्येण, अभिनवगुप्तेन मम्मटेन च दिशेयं निर्दिष्टा। परिपक्वतायाः प्रौढतायाः गाम्भीर्यस्य च समावेशोऽस्मिन्नव काले समजनि। कालोऽयं चरमविकासकालः । ध्वनिसिद्धान्तमुद्दिश्य काव्यशास्त्रेतिहासे कालविभाजनमपि संदृश्यते
१- पूर्व ध्वनिकालः-प्रारम्भात्, आनन्दवर्धनात् पूर्व ___८५० ईस्वीपर्यन्तम् । २- ध्वनिकाल-पानन्दवर्धनान् मम्मटपर्यन्तं १२५०
ई. पर्यन्तम् । ३- उत्तरध्वनिकालः-मम्मटादद्यावधि-पर्यन्तम् ।
ध्वनिकालस्य प्रथमाचार्यः आनन्दवर्धनोऽभवत् । द्वितीयस्य अभिनवगुप्तः। अस्य समयः ६८० तः १०२० खीष्टाब्दपर्यन्तमङ्गीक्रियते ऐतिह्यतत्त्वविद्भिः। अनेन 'ध्वन्यालोकलोचन' नाम्नी टीकाध्वन्यालोकोपरि टीकिता। तत्र च ध्वनिसिद्धान्तस्य पल्लवनं पोषणञ्च विराजेते । अस्याः कृतेमहत्त्वं कस्या अपि मौलिककृतेन्यू नं न सम्भवति । अनेनाचार्येण प्रमाणितं यत् व्यञ्जनाव्यापारद्वारैव रससिद्धिर्भवितुमर्हति । आचार्योऽयौं मुख्यतो रसवादी
साहित्यरत्नमञ्जूषा-२३४