________________
यन्ति ।
रसध्वनिना तेषां तात्पर्यम् - नवरसभाव-भावाभास
भावोदय-भावशबलता-भावसन्ध्यादिभिरप्यस्ति
1 वस्तु
ध्वनिना तथ्यकथनस्य तथा च कल्पनाप्रसूत- चमत्कारजनकभामाहाभिव्यक्त` रलंकारध्वनौ ग्रहणं भवती तिएतेषु । ध्वनित्रयेषुरसध्वनिरेव सर्वश्रेष्ठा मन्यते । सैषा ध्वनिरेव काव्यस्यात्मा विद्यत इति ।
ध्वन्याचार्यैः ध्वनितत्त्वे एव सर्वेषामन्यकाव्यात्मकतत्त्वानां समाहारो विहितः । तेषां वर्णनानुसारेण रस इव गुणालंकाररीतिवक्रतादयोऽपि व्यंग्या एव न वाच्याः । वाचकशब्दैस्तु न च माधुर्यादिगुणानां कथनं भवति, वैदर्भ्यादिरीतिनाम्, उपमाद्यलंकारकाराणाम्, वक्रतादीनामपि च न । एते सर्वेऽपि ध्वनिस्वरूपे एव समुपस्थिता भवन्तीति । अन्यच्च - गुणालंकाररीत्यादयः पदार्थाः प्रत्यक्षतो वाच्यार्थ - द्वारा मानसं नाभिनन्दयन्ति । अस्य महत्त्वमपि प्रत्यक्षापेक्षया ध्वन्यार्थादेव । यतो हि यत्र ध्वन्यार्थो न तत्र आत्माविहीनतत्त्वानि आभूषणामिव निरर्थकत्वं भजन्ते । अतएव ध्वनिकारैरेते ध्वन्यार्थरूपाङ्गिनोङ्गत्वेनैव स्वीकृताः सन्ति । फलतो ध्वनेः प्राधान्यम्, सैव काव्यस्य आत्मा ।
भारतीय काव्यशास्त्रेतिहासे ध्वनिसम्प्रदायोदयः कीयं विशिष्टोपलब्धिस्वरूपं विभर्ति ।
साहित्यरत्नमञ्जूषा - २३३
स्व
ध्वनिसम्प्रदायोद