________________
विवेचनं न समवाप्यते आनन्दवर्धनस्तु ग्रन्थानेतान् विलोक्य व त्रयाणां विरोधिमतानां कल्पनामकरोत् । ध्वनिसिद्धान्तात् पूर्वं रस-रीत्यलंकार-सम्प्रदायानां प्रतिपादनं समुल्लासितमासीत् । यद्यपि रस-रीत्यलंकाराचार्या ध्वनिसिद्धान्तेन परिचिताः नासन् एतेषां विवेचने ध्वनेः पूर्वाभासः समजनि । अानन्दवर्धनः स्वत एव स्वीकरोति यदेतेषां स्थापनाः ध्वनेः सामीप्यमभजन् ।
ध्वनिसिद्धान्तस्य मूलस्रोतो वैयाकरणानां स्फोटसिद्धान्ते सुरक्षितम् । तथा च तस्य स्वरूपं भारतीयदर्शनेषु विवेचितव्यञ्जनाव्यापारे परिलक्ष्यते । व्याकरण शास्त्रे कर्णगोचरः शब्दोऽनित्यः, अनित्यात् शब्दात् अर्थप्रतीतिरसम्भवा । अतो वैयाकरणाः नित्यशब्दानां कल्पनाय स्फोटसिद्धान्तोद्भावनामकुर्वन् । स्फोटश्चैवं व्याख्यातः'स्फुटित अर्थोऽस्मादिति स्फोटः' यस्मात् शब्दविशेषात् अर्थः स्फुटितः स स्फोट: स च नित्यः पूर्वापरसम्बन्धरहितोऽखण्डएकस्सः । शब्दस्यास्याभिव्यक्तिरेव ध्वनितत्त्वमस्ति । व्याकरणशास्त्रे ध्वनिशब्दोऽभिव्यञ्जनार्थे प्रयुक्तस्थता च ध्वनिसम्प्रदाये शब्दार्थोभयाय प्रयुज्यते ।
ध्वनिसम्प्रदाये काव्यस्यात्मा ध्वनिः। ध्वन्याचार्या ध्वनेरभ्यन्तरे रसध्वनि, अलंकारध्वनि वस्तुध्वनिञ्च गुण
साहित्यरत्नमञ्जूषा-२३२