________________
ध्वनिः- इदमुत्तममतिशयिनि व्यंग्ये वाच्याद् ध्वनिर्बुधः कथितः। (का. प्र. १/४) अर्थस्तावत् वाच्यप्रतीयमानभेदेन द्विधा भवति। साहित्ये ध्वनिवादिदृष्ट्या-अलंकारादीनां ग्रहणं वाच्यार्थे सम्पद्यते । ध्वने: ग्रहणन्तु प्रतीयमानेऽर्थे प्रवर्तते । प्रानन्दवर्धनाचार्यमतेन प्रतोयमानार्थस्य सत्ता निश्चिता भवति। तच्च प्रतीयमानमन्यदेव वस्तुप्रतीयमानं पुनरन्यदेववस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्त विभाति लावण्यमिवाङ्गनासु ॥
(ध्वन्यालोक: १/४) ध्वनिसिद्धान्तोद्भावना प्रतिष्ठा च आनन्दवर्धनस्य महत्युपलब्धिरस्ति । वाल्मीकि-व्यास-कालिदासादीनां महाकाव्येषु ध्वनितत्त्वं समीक्ष्य तच्चात्मपदे प्रतिष्ठाप्याचार्यानन्दवर्धन उक्तवान्
'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः'
आनन्दवर्धनस्य कथनानुसारेणेदं प्रतीयते यत् ततः पूर्वमपि ध्वनितत्त्वप्रतिष्ठा प्रासीदिति । ध्वन्यालोकरचनायाः पूर्वं भरतस्य नाट्यशास्त्रम्, भामहस्य काव्यालंकारः, उद्भटस्य टीका दण्डिनः काव्यादर्शः वामनस्य काव्यालंकारसूत्रवृत्तिः, रुद्रटप्रणीतः काव्यालंकार इत्यादयो लाक्षणिकाः ग्रन्थाः आसन् किन्त्वेतेषु ध्वनितत्त्वस्य क्वचिदपि
साहित्यरत्नमञ्जूषा-२३१,