Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 307
________________ * गद्यलक्षणम् * समासरहितमाद्यं पद्यभागयुतं परम् । श्रन्यदीर्घसमासोक्त तुर्यं चाऽल्पसमासकम् ॥ १॥ , गद्यकाव्यस्य चत्वारो भेदाः सन्ति । मुक्तकं, वृत्तगन्धिकं, उत्कलिकं, चूर्णकं चेति । तेषु प्रथमं समासरहितं मुक्तकं गद्यमस्ति । पद्यांशयुक्त तथा गद्यमपि युक्त च द्वितीयं वृत्तगन्धिकं गद्यमस्ति । तृतीयं दीर्घसमाससहितं उत्कलिकं गद्यमस्ति । यथा कादम्बरी - तिलकमञ्जरिग्रन्थादौ उत्कलिकं गद्यमस्ति । चतुर्थं च अल्पसमाससमेतं चूर्णकं गद्यम् अस्ति । * आख्यायिका * "कवेवंशकी तिगानं कथावृद्धिकथानकम् । वृत्तमन्यकवीनाञ्च भवेद् श्राख्यायिका क्रमे । " * चम्पूलक्षणम् * " गद्यपद्यात्मकं चम्पूः, काव्य - नाम्नाभिधीयते । " उदाहरणं यथा - पञ्चतन्त्रादयः । श्रव्यदृश्यविभागेन काव्यं यद् युगलात्मकम् । सुशीलसूरिणा रत्नमञ्जूषायां सुर्वारणतम् ॥ ॥ इति दृश्य-श्रव्यकाव्य - निरूपणम् ॥ साहित्यरत्नमञ्जूषा - २१२

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360