Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 321
________________ त्वेन स्वीकरोति । तद् यथा, सन्धिः, सन्ध्यङ्गम्, वृत्तिःवृत्त्यङ्गम्, लक्षणा- व्यञ्जनादीनामपि अलङ्कारेषु समावेशः स्यादिति चिकीर्षति । इत्थञ्चालङ्कारिकाः विशेषतो दण्डी गुण-रस-ध्वनि-प्रबन्धकाव्य-नाट्यादिविषयानपि अलङ्कारनाम्नाऽभिहितवन्त इति समासेनात्र स्वीकार्यम् । एतेषां मतेन अनुप्रासोपमादय एवालंकारपदवाच्या न सन्त्यपितु - काव्य - चमत्कारोत्पादकाः सौन्दर्यविधायकाश्च सकलान्यपि काव्यतत्त्वानि काव्याङ्गानि वाऽलङ्कारपदवाच्यानि सन्ति - इति सुतरां बुद्धिपथमुपयाति । निष्कर्षतो वयं व्यावक्तुम् शक्नुमो यत् अलंकारसम्प्रदायेऽलङ्कारस्य व्यापकोऽर्थोऽभीष्टः । एतेषां मते अलंकार एव काव्य सर्वस्वम् । अलंकारवादी रुय्योऽचीकथत् यत् प्राचीनाऽऽलंकारिका भामहोद्भटादयः प्रतीयमानं ( व्यंग्यम् ) अर्थम् वाच्यस्य सहायकं मत्वाऽलंकार एव निवेशयन्ति - 'इह तावत्भामहोद्भटप्रभृतयश्चिरन्तनालंकारकाराः प्रतीयमानमर्थं वाच्योपस्कारतया अलंकारपक्षनिक्षिप्तं मन्यन्ते । एतेषामाचार्याणां मतेन रसादयोऽलंकारपोषकाः उपकारका सन्ति । अतएव काव्यमीमांसाग्रन्था अपि अलंकारशास्त्राभिधानेन प्रसिद्धिमावहन्तीति । साहित्यरत्नमञ्जूषा - २२६

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360