________________
त्वेन स्वीकरोति । तद् यथा, सन्धिः, सन्ध्यङ्गम्, वृत्तिःवृत्त्यङ्गम्, लक्षणा- व्यञ्जनादीनामपि अलङ्कारेषु समावेशः स्यादिति चिकीर्षति । इत्थञ्चालङ्कारिकाः विशेषतो दण्डी गुण-रस-ध्वनि-प्रबन्धकाव्य-नाट्यादिविषयानपि अलङ्कारनाम्नाऽभिहितवन्त इति समासेनात्र स्वीकार्यम् । एतेषां मतेन अनुप्रासोपमादय एवालंकारपदवाच्या न सन्त्यपितु - काव्य - चमत्कारोत्पादकाः सौन्दर्यविधायकाश्च सकलान्यपि काव्यतत्त्वानि काव्याङ्गानि वाऽलङ्कारपदवाच्यानि सन्ति - इति सुतरां बुद्धिपथमुपयाति ।
निष्कर्षतो वयं व्यावक्तुम् शक्नुमो यत् अलंकारसम्प्रदायेऽलङ्कारस्य व्यापकोऽर्थोऽभीष्टः । एतेषां मते अलंकार एव काव्य सर्वस्वम् ।
अलंकारवादी रुय्योऽचीकथत् यत् प्राचीनाऽऽलंकारिका भामहोद्भटादयः प्रतीयमानं ( व्यंग्यम् ) अर्थम् वाच्यस्य सहायकं मत्वाऽलंकार एव निवेशयन्ति - 'इह तावत्भामहोद्भटप्रभृतयश्चिरन्तनालंकारकाराः प्रतीयमानमर्थं वाच्योपस्कारतया अलंकारपक्षनिक्षिप्तं मन्यन्ते । एतेषामाचार्याणां मतेन रसादयोऽलंकारपोषकाः उपकारका सन्ति । अतएव काव्यमीमांसाग्रन्था अपि अलंकारशास्त्राभिधानेन प्रसिद्धिमावहन्तीति ।
साहित्यरत्नमञ्जूषा - २२६