________________
श्रलङ्करोतीति-प्रलङ्कारः - यः शोभयति सोऽलङ्कारः । प्रथमव्याख्यानेऽलंकारः
अथवा अलं क्रियतेऽनेनेत्यलंकारः । कर्त्ता, विधायको वा, द्वितीये च साधनमात्रम् | अलंकारस्य सर्वसम्मतदृष्ट्या द्वितीयव्युत्पत्तिः संगता यया च अलंकाराणां काव्यशोभायां साधनमात्रत्वमाभाति - 'काव्यशोभायाः कर्त्तारो धर्माः गुणाः तदतिशयहेतवस्त्वलंकाराः' । दण्डी काव्यशोभाकर्त्त त्वरूपेणालंकारं स्वीकरोति'काव्यशोभाकरान् धर्मानलंकारान् प्रचक्षते' । अत्रालंकारो द्वयर्थे प्रयुक्तः - समग्रकाव्य सौन्दर्याय सौन्दर्योपकररणाय च ।
आचार्यवामनोऽलंकारान् काव्यशोभाकरान् न मनुते अपितु गुणोत्कर्षान् अङ्गीकरोति । अस्यैव प्रभावः परवर्तिकाले प्रतिफलितोऽभूत् । परिणामस्वरूपेण एकः पक्षः काव्याय अलङ्कारस्यानिवार्यतामपरश्च गौणतां प्रदर्शयति । यथा खल्वाचार्यमम्मट: - ' श्रनलंकृती पुनः क्वापि । अत्र चन्द्रालोककारः पीयूषवर्षी जयदेवस्तु प्रोक्तवान्
अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती । असौ न मन्यते कस्मादनुष्णमनलंकृती ॥
अर्थात् यदि कश्चित् पण्डितम्मन्यः काव्यमनलंकृती ( अलंकाररहितम् ) स्वीकरोति तर्हि स पावकमपि उष्णतारहितं स्वीकुर्यादिति ।
साहित्यरत्नमञ्जूषा - २२७