Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 326
________________ ध्वनिः- इदमुत्तममतिशयिनि व्यंग्ये वाच्याद् ध्वनिर्बुधः कथितः। (का. प्र. १/४) अर्थस्तावत् वाच्यप्रतीयमानभेदेन द्विधा भवति। साहित्ये ध्वनिवादिदृष्ट्या-अलंकारादीनां ग्रहणं वाच्यार्थे सम्पद्यते । ध्वने: ग्रहणन्तु प्रतीयमानेऽर्थे प्रवर्तते । प्रानन्दवर्धनाचार्यमतेन प्रतोयमानार्थस्य सत्ता निश्चिता भवति। तच्च प्रतीयमानमन्यदेव वस्तुप्रतीयमानं पुनरन्यदेववस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्त विभाति लावण्यमिवाङ्गनासु ॥ (ध्वन्यालोक: १/४) ध्वनिसिद्धान्तोद्भावना प्रतिष्ठा च आनन्दवर्धनस्य महत्युपलब्धिरस्ति । वाल्मीकि-व्यास-कालिदासादीनां महाकाव्येषु ध्वनितत्त्वं समीक्ष्य तच्चात्मपदे प्रतिष्ठाप्याचार्यानन्दवर्धन उक्तवान् 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः' आनन्दवर्धनस्य कथनानुसारेणेदं प्रतीयते यत् ततः पूर्वमपि ध्वनितत्त्वप्रतिष्ठा प्रासीदिति । ध्वन्यालोकरचनायाः पूर्वं भरतस्य नाट्यशास्त्रम्, भामहस्य काव्यालंकारः, उद्भटस्य टीका दण्डिनः काव्यादर्शः वामनस्य काव्यालंकारसूत्रवृत्तिः, रुद्रटप्रणीतः काव्यालंकार इत्यादयो लाक्षणिकाः ग्रन्थाः आसन् किन्त्वेतेषु ध्वनितत्त्वस्य क्वचिदपि साहित्यरत्नमञ्जूषा-२३१,

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360