Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 327
________________ विवेचनं न समवाप्यते आनन्दवर्धनस्तु ग्रन्थानेतान् विलोक्य व त्रयाणां विरोधिमतानां कल्पनामकरोत् । ध्वनिसिद्धान्तात् पूर्वं रस-रीत्यलंकार-सम्प्रदायानां प्रतिपादनं समुल्लासितमासीत् । यद्यपि रस-रीत्यलंकाराचार्या ध्वनिसिद्धान्तेन परिचिताः नासन् एतेषां विवेचने ध्वनेः पूर्वाभासः समजनि । अानन्दवर्धनः स्वत एव स्वीकरोति यदेतेषां स्थापनाः ध्वनेः सामीप्यमभजन् । ध्वनिसिद्धान्तस्य मूलस्रोतो वैयाकरणानां स्फोटसिद्धान्ते सुरक्षितम् । तथा च तस्य स्वरूपं भारतीयदर्शनेषु विवेचितव्यञ्जनाव्यापारे परिलक्ष्यते । व्याकरण शास्त्रे कर्णगोचरः शब्दोऽनित्यः, अनित्यात् शब्दात् अर्थप्रतीतिरसम्भवा । अतो वैयाकरणाः नित्यशब्दानां कल्पनाय स्फोटसिद्धान्तोद्भावनामकुर्वन् । स्फोटश्चैवं व्याख्यातः'स्फुटित अर्थोऽस्मादिति स्फोटः' यस्मात् शब्दविशेषात् अर्थः स्फुटितः स स्फोट: स च नित्यः पूर्वापरसम्बन्धरहितोऽखण्डएकस्सः । शब्दस्यास्याभिव्यक्तिरेव ध्वनितत्त्वमस्ति । व्याकरणशास्त्रे ध्वनिशब्दोऽभिव्यञ्जनार्थे प्रयुक्तस्थता च ध्वनिसम्प्रदाये शब्दार्थोभयाय प्रयुज्यते । ध्वनिसम्प्रदाये काव्यस्यात्मा ध्वनिः। ध्वन्याचार्या ध्वनेरभ्यन्तरे रसध्वनि, अलंकारध्वनि वस्तुध्वनिञ्च गुण साहित्यरत्नमञ्जूषा-२३२

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360