Book Title: Sahitya Ratna Manjusha
Author(s): Sushilsuri
Publisher: Sushilsuri Jain Gyanmandiram

Previous | Next

Page 325
________________ ज्ञायतेऽनयेति रीतिः। विश्वनाथोऽपि शरीराङ्गसंस्थानवत् काव्यात्मभूतरसादीनामुपकारिका रीतिरिति स्वीकरोति । उक्तञ्च पदघटना रीतिरङ्गसंस्थाविशेषवत् । उपकी रसादीनां...................।। निष्कर्षश्चायं वामनोऽलंकारवादिनः सिद्धान्तान् अधिकांशतोऽङ्गीकरोति तथापि काव्यस्यात्मा रीतिरिति मतं संस्थापयति । अनेनास्य गुणग्राहकता शिथिलता चोभयं द्योत्यते । ध्वनिसम्प्रदायः भारतीयकाव्यशास्त्रेतिहासे ध्वनि-सम्प्रदायोदयो युगान्तरकारी भासते। ध्वनिवादिन आचार्याः रसालंकाररीतिवक्रोक्त्यादीनां पूर्वन्तनीनकाव्यतत्त्वानां सामञ्जस्य ध्वनिना सहैव सम्पादयन्ति । सम्प्रदायस्यास्य प्रतिष्ठाता आनन्दवर्धनाचार्यः, पोषकोऽभिनवगुप्तः तस्मिन् प्राणसञ्चारको मम्मटाचार्यः । यद्यपि ध्वनिसम्प्रदायस्य विरोधिनोऽस्य खण्डनं कतु बहुधा विचेष्टितवन्तस्तथापि अन्तस्तत्त्वमहत्त्वात् सिद्धान्तोऽयमजेयः । वाच्यार्थाऽपेक्षया या अन्या हृदयाह्लादकारिका सा साहित्यरत्नमञ्जूषा-२३०

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360